पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxxviii ८ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्मानौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || इति स्मृतेश्च । ननु कथमात्मने ब्रह्मणे इत्युच्यते ? उच्यते; -- अत्मनि तिष्ठन्नात्मनोन्तरो+यमयति यस्यात्मा शरीरं स आत्मा इति जीवशरीरकेऽन्तर्यामिणि आत्मशब्दप्रयोगात् । तस्य च परमात्म- त्वात् । परमात्मनो ब्रह्मत्वेन सर्वशाखाप्रसिद्धत्वात् । नारायणः परं ब्रह्म आत्मा नारायणः परः । इति नारायणपरब्रह्मपरमात्मशब्दानां सामानाधिकरण्यात् । नाग- यणं महाज्ञेयम् इति सर्वदा ज्ञेयत्वात् । ६ कथमन्याभ्यो देवताभ्योऽपि क्रियमाणं कर्म ब्रह्मेति ध्यायेत् ? यो देवानां नामधा एक एच' ' स ब्रह्मा स शिवः ' चतुर्हो - तारो यत्र संपदं गच्छन्ति देवैः' 'सर्वे वेदा यत्रैकं भवन्ति' इत्यादि- श्रुतौ सर्वदेवतानां नामधारकत्वेन सर्वदेवस्वरूपत्वेन सर्वयज्ञ- रिज्यत्वेन सर्वविधिवाक्यैर्विधेयत्वेन वावगमात् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः ॥ तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् | इति स्मृतेश्च" इति धूर्तस्वाम्याशयो वर्णितः । एतत्सूत्रविवरणावसरे च अहोवलसूरिरपि अत्रत्यभाष्यवृत्ती शब्दतोऽर्थतश्चानुवति ;- 'अस्मिन् मन्त्र आत्मा करोत्वात्मने इति लिङ्गेन आत्मा ब्रह्मात्मने ब्रह्मणे करोत्विति ब्रह्मैव कर्ता भोक्तेत्यनुसंधानं कर्तव्यम् । यत्करोषि + घिना इति स्मृतेश्च । ननु कथमात्मपदस्य ब्रह्मपरत्वम् ? उच्यते; - य आत्मनि तिष्ठन् + स आत्मेति जीवशरीरकेऽन्तर्यामिणि आत्मशब्दप्रयोगात् । अन्तर्यामिणः परमात्मत्वात् - सिद्धत्वात् + रण्यात् । कथमन्याभ्यो + वगमात् । अहं हि + पूर्वकम्' इति स्मृतेश्च " इति । एवं पञ्चमे प्रश्न सप्तमे पटले; --'अग्निहोत्रमारस्ये यावज्जीवं होप्यामि जीणों वा विरमणं करिष्ये इति सङ्कल्पः । स्वर्गकामं 66