पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xl तत्र वृत्तिः- आदित्यो वाजी’ इति निर्वचनमुदाहृत्य तस्य च ब्रह्मरूपत्वेन सर्वपदार्थेष्ववस्थानात् कमण्डल्वादावप्यनिवृत्तिः ९ म. प्रश्न १ खं ,--‘ देवयानो हि पन्था दर्शपूर्णमासौ’ इति भाष्यम् । अत्र वृत्तिः ,–‘एष वै देवयानः पन्था यद्दर्शपूर्णमासौ इति श्रवणात् ब्रह्मज्ञानिनो नित्यकर्मानुष्ठानेन अर्चिरादिमार्गस्य ब्रह्म प्राप्त्युपायभूतस्य प्राप्तेः ‘परमामेव काष्टां गच्छति इति’ दर्शपूर्ण मासयोरपवर्गार्थत्वात् अर्चिरादिमार्गेण चापवर्गप्राप्तेः, इति , कारणे कार्योपचारात् देवयानप्राप्त्युपायभूतयोर्दर्शपूर्णमासयोर्देवयान- त्वस् ' इति च । ९ प्र. २ खे ‘स्वर्गपथप्रतिपत्त्यर्थः इति भाष्यम् । अत्र वृत्तिः ,—'अथो देवता एवान्वारभ्य सुवर्णं लोकमेति इति निर्देशात् स्वर्गशब्दस्य मोक्षपरत्वात्, मोक्षप्राप्तेश्च देवयान प्रप्तद्वारकत्वात्’ इति । १२ श प्रज्ञे ,– अपरिमितनिःश्रेयसवाचित्वात्स्वर्गशब्दस्य इति’ भाष्यम् । अत्र वृत्तिः ;– ' सवत्सरस्स्वग लोकःइति कालात्मकपरब्रह्म स्वरूपानन्दपरत्वात् मोक्षार्थश्च सदा यत्नः कर्तव्य इति स्वर्गकाम- श्रवणेऽपि नित्यता’ इति । एवं च भाष्यकुव धूर्तस्वामी वृतिकारो रामाण्डारध जीव परमात्मनोः शरीरशरीरिभावं परमात्मनश्च विष्णोः सर्वचेतना चेतनान्तर्यामित्वं अपरमितनिःश्रेयसस्य मोक्षात्मकस्य स्वर्गपद व्यपदेश्यस्य ब्रह्मज्ञानिनो ज्ञानसहकृतनित्यकर्मानुष्ठानसाध्यदेवयान गतिसाध्यत्वं भगवतश्च सर्वकर्मसमाराध्यत्वं तस्यैव च सवकर्म कत्वफलभोकृत्वानुसंधानं इत्यादिवदन्तौ विशिष्टाद्वैतसंप्रदायस्थौ संभावयितुं शक्यते । ज्ञानकर्मसमुच्चयान्मोक्षसिद्धेः’ इति वृत्तिकारवचोऽनुरोधे च विशिष्टाद्वैतसंप्रदायाप्रविष्टावित्यपि संभावयितुं शक्यते ।