पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ९, सू २ [यजमानकर्तृकधारणेविशेषः (भा) यजमानो धारयति यदा तदा न ब्रह्मणे प्रयच्छति । तदाऽ- पीत्युपदेशः । 180 दर्भैर्वेदिमन्तर्धाय दक्षिणत स्नहन' 'स्तृणात्य- क्ष्णया वा ॥ १ ॥ ७ ॥ ३३२ ॥ उर्णाग्रदसं त्वा स्तृणामीति बर्हिषा वेदि स्तृणाति बहुलमनति दृश्यं प्रागपवर्ग प्रत्यगपवर्ग वा ' त्रिधातु पञ्चधातु वा ॥ २ ॥ ८ ॥ ३३३ ॥ (भा) अनतिदृश्य – यथा न दृश्यते भूमिः । धातुः – परिपाटिः । बहुष्वपि निघनेषु त्रिधातु पञ्चधातु वेति नियम ॥ (सू) 5 [ उपदेशपक्षाशयः प्रदानसाफल्यं च] (वृ) तदापीत्युपदेशः इति – धारणार्थत्वे प्रदानस्य यदा ब्रह्मा धारयति तदा " यजमानायापि प्रदानं निवर्तत इति प्रसङ्गपरिहार उपदेशपक्षः : । धारणं तु विकल्प्यते । प्रदान त्वदृष्टार्थम् । यजमानो ब्रह्मण इत्यविशेषचोदितत्वात् ॥ [असंस्कारेणाधोनिधानोपपत्ति ] - (वृ) अनति – दृश्यम् यथा न दृश्यते भूमिः - नियतपरिमाणेन बाईंषा स्तरणादिविधानेऽपि बहुलमनतिदृश्यमित्यत्र वचनादनाच्छन्नायां भूमौ दर्भा असस्कृता अप्युपादातव्या. ॥ [भाष्योक्तनियम विशेषफलोपपत्ती] बहुष्वपि - नियमः - निधनानि संसृज्य 'त्रिधातुस्तरणम् । अत. पशुसोमादौ महत्या वेद्यामपि त्रिभिः पञ्चभिर्वा धातुभिरपरेणा- 1 संनहन शुल्बम् (रु) 2 स्तृणाति - निदधाति । यद्वा विस्रस्य हर्भा- स्तृणाति । तद्वत्सन्नहन विस्रस्येति कात्यायनबोधायनौ (रु), 8 दृश्न क यथा तृणान्यतीत्य न दृश्यते भूमिस्तथा (रु), 4 त्रिधातु - त्रिसन्धि (रु) 6 यजमानोऽपि प्रदानं निवर्तयतीति- 6 त्रिधातु पञ्चधातुस्तरणम्,