XXIII प्रत्यक्षाद्युपजीवित्वात् शास्त्रतो धीर्विलम्बिता । ततो हि परदौर्बल्यं श्रुतिलिङ्गादिकेष्वपि ॥ २० ॥ द्रव्यदैवतवैषम्यं न सत्यासत्यभावत । दैवतं यदि मिथ्या स्यात् कथं भेदादिधर्मभाक ॥ २१ ॥ अर्थोपश्लिष्टशब्दात्मा शब्दमात्रात्मिकापि वा। यथा श्रुतगृहीता वा सत्यैव खलु देवता ॥ २२ ॥ मणिमन्त्रौषधाद्यैश्च सिद्धिरुक्ताभ्युपेयते। जन्मसिद्धाऽपि साधीता किन्न देवेषु गृह्यते ॥२३॥ न वस्तु देशान्तरयोर्दैवदृष्टि विधानवत् । इह कल्पयितुं शक्यं स्वरूपविधिसौस्थ्यतः॥ २४ ।। रात्रिसत्रादिनीत्या च विध्यपेक्षानुसारतः ।। फलदाः फलभूतत्वादपि सिध्यन्ति देवताः ॥२५॥ इत्थं प्राचीनया नीत्या क्षिप्तं निर्दैवतं मतम् ।। शेषं तदुपरीत्यादिसूत्रभाष्ये भविष्यति ॥ २६॥ द्रभिडभाष्यकारैरप्युक्तम् ;-* अञ्जसैव विश्वसृजो रूपम्' इत्यारभ्य ‘नह्यरूपाया देवताया रूपमुपदिश्यते ! यथाभूतवादि हि शास्त्रम् ! इति' इति।। धूर्तस्वामिपरिचयः अपस्तम्बश्रौतसूत्रभाष्यकारो धूर्तस्वामी कदा कतमं भूमिभाग- मलंचकारेति विचारे भाष्यं वृत्तिर्वा नास्माकं साहाय्यकमाचरति । अथाऽपि श्रीभाष्यकारैः वेदार्थसंग्रहे ;-उपनिषदां स्वोप- पादितार्थे तात्पर्ये प्राचीनवेदव्याख्यातृसंमतौ दर्शनीयायाम्;-तदे तत् नानाविधश्रुतिनिकरशिघ्रपरिगृहीततद्वयाख्यानपरिश्रमावधारि तम्' इत्यत्र ; “बोधायनटन्कद्रमिडगुहदेवकपर्दिभारुचिप्रभ्रुत्यवि- गीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकर- दर्शितोऽयं पन्थाः' इत्यत्र च कपर्दिनः स्वप्राचीनसंप्रतिपन्न वेद- वेदान्त व्याख्याततया परिगणनमवलम्ब्य तद्वयाख्येय पूर्वभाग- व्याख्यात्रा धूतर्स्वामिनाsपि ततोऽनर्वाचीनेन भवितयमिति निश्चि- नुमः ।।
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३
दिखावट