xxii क्षणिकस्य फलद्वारं किं भवेदिति चिन्तने । द्वारक्कुतेर्वरं तत्र कुप्तद्वार परिग्रहः ॥ ६ ॥ देवतानां क्रियार्थत्वं कर्मणां च तदर्थता । मुख भेदेन सिद्धत्वान्न मिथो बाघमर्हतः ॥ ७ ॥ आदित्यादिमतीरङ्गे स्थापयन् बादरायणः । देवतानां प्रधानत्वमर्थसिद्धमसूत्रयत् ॥ ८ ॥ नासिद्धदेवता रूपदृष्टिश्चान्यत्र युज्यते । न च सर्वत्र निर्बाधे कल्प्यो दृष्टिविधिक्रम ॥ ९ ॥ देवतानां तपश्चर्याद्युक्तिश्च न विरुध्यते । स्वाधिकेश्वरतोषार्थ प्रवृत्तेरुपपत्तित ॥ १० ॥ प्रशासितुश्च घृणया धर्मसंस्थापनार्थिन । तत्तत्कर्मप्रवृत्तिस्स्यात्कर्मवश्यानुसारिण. ॥ ११ ॥ तिर्थक्स्थावर निर्जीव तत्प्रतीक गुणक्रियाः । अभिमत्यनुवन्धेन देवतास्तदपि श्रुतम् ॥ १२॥ हविर्भेदानुसारेण फलभेदप्रदायिता | प्रतिषिद्धैः प्रकोपश्च राजादिन्यायतो भवेत् ॥ १३ ॥ यदिश्रुत्यनुसारेण स्वभावो हविरादिषु । तेनैव तत्तदाराध्य स्वभावस्वीक्रियोचिता ॥ १४ ॥ मन्त्रार्थवादसिद्धेऽपि यत्र बाधा न दृश्यते । तन्मूला स्मृतिरप्यत्र न बाधा स्वमूलवत् ॥ १५ ॥ पर्याये च विशिष्टे च देवताभेदकल्पनम् । तत्तच्छब्दोषधानेन तदुद्देश्यत्वसिद्धये ॥ १६ ॥ अविदित्वा स्वमन्दत्वं नास्तिकैरास्तिकेष्विह । यैरजल्प्यत मन्दत्वं शोच्यास्ते सूक्ष्मदर्शिभि ॥ १७ ॥ द्रव्यदैवतसामान्ये बलीयो द्रव्यमित्यपि । प्रत्यक्षे च परोक्षे च प्रमाण प्रस्थितेर्वशात् ॥ १८ ॥ द्रव्यस्याध्यक्षसिद्धस्य हविष्ट्र शास्त्रगोचरः । देवताया स्वरूपं च धर्मत्वं चेति भेदतः ॥ १९ ॥
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२२
दिखावट