पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxiv S ' अक्षय्यं हवै + भवति' इति स्वर्गफलानुवाद इति व्याख्यातं हविर्यज्ञेषु' इति वदन् कपर्दिस्वामी धूर्तस्वामिभाष्यं तन्नामनिर्देश विनिर्मुक्तं निर्दिशतीति ततोऽपि तस्य तत्पूर्वकालिकता निश्ची- यते । किञ्चः–(२-२-२८) उपभृति द्वौ गणौ प्रयाजानूयाजार्थौ मीमांस- कैरुपपादितौ ' इति धूर्तस्वामिभाष्यम् । (४-१-७) अधिकरणे च शबरस्वामिना उपभृति चतुर्गृहीत द्वयात्मकत्वमुपपाद्यते । एवम्, – (४-११ खण्डे) 'सुब्रह्मण्या तु तन्त्रं स्यात् इति 'सुब्रह्मण्या तु' इति (११-३-२२) " मीमांसकमतात्' इति भाष्यम् । सूत्रे एवमेव दृश्यते शबरस्वामिनो वाक्यम् । पवमादिग्रन्थपर्यालोचनया स्वामीति व्यवसातुं शक्यते । शबरस्वामिनोऽपि भाष्यं भाष्यान्तरमूलकमिति स्वामिपदान्त- नामधेयतातौल्यान्न ततोऽर्वाचीनतेति तु न शङ्कथम; भवस्वामि केशवस्वाम्यादिषु ततोऽर्वाचीनेष्वपि स्वामिपदान्तनामधेयतासं- मतेः । 6 शबरस्वामितोऽर्वाचीनो धर्त- शबरस्वामी शालिवाहनशकारम्भात्पूर्वतनो वत्सराणां शत- द्वय्या इति विनायकरायः । धूर्तस्वामी बहुशखाभि इति (१०) ' न त्वयं विधि- स्स्यात् श्रूयमाणासु शाखास्वदर्शनात्' इति तद्वाक्यादवगच्छामः । दशमे प्रश्ने, –' नीविरसीति नीविमनुकल्पयते' इति सूत्रम् | तत्र सोमस्य नीविरसीत्यन्तान् वेष्टयति' इति धूर्तस्वामि- भाष्यम् । अत्र च 'यथोपरि न भवन्ति यथा वाससोऽन्ता न प्रकाशा भवन्ति ' इति रामाण्डारः । अनेन च संदर्भेण गृहस्थस्य वा- , सोधारणप्रकारशिक्षितो भवति । स च वस्त्रधारणप्रकारः अघ- रीय विषयकस्सन् वैदिकैश श्रीवैष्णवैरद्यापि परिपाल्यमानो जागर्ति ।