पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे ज्ञायमाने बयोविशेषे वृद्धतरायाऽभिवाद्यम् ॥ १३ ॥ मार्थमिदम्(१) वयोविशेषे ज्ञायमाने पूर्व वृद्धतरायाऽभिवाद्यम् अभिवादन कर्तव्यम् । पश्चादवृद्धायेति ॥ १३ ॥ विषमगताधाऽगुरवे नाभिवायम् ॥ १४ || उच्चैस्थाने नीचैरूस्थाने वाऽवस्थितो विषमगतः । तस्मै गुरुव्यति। रिक्ताय नाभिवाद्यम् । गुरव स्वाभिवाद्यमेव, दर्शने सति तूष्णीमवस्थान स्याऽयुक्तत्वात् ॥ १४॥ अन्वारुह्य वाभिवादयीत !॥ १५ ॥ इदमगुरुविषयम् । यत्रालावभिवादनीयः स्थितः तत्रान्वारुह्याभिवाद- यील अभिवदेत् । अन्ववाहोत्या दृष्टव्यम , न्यायस्य तुल्यत्वात् । गुरी तु दृष्टमात्र एवाभिवादनमित्युक्तम् ॥ १५ ॥ सर्वत्र तु प्रत्युत्थायाभिवादनम् ॥ १६ ॥ सर्वत्र गुरावगुरौ च प्रत्युत्थायैवाभिवादन कर्तव्यम् ॥ १६ ॥ उत्तरे द्वे सूत्र निगदसिद्धे ।। (३)अप्रयतेन नाभिवाद्यं, तथाऽप्रयताया,प्र यतश्च न प्रत्यभिवदेत् ॥ १७ ॥ यधशानादप्रयताय कश्चिदभिवादयेत् तथापि सोऽप्रयतो न प्रत्य- भिवदेत् ॥ १७॥ पतिपयसा स्त्रियः ॥ १८ ॥ पत्युर्यद्वयस्तदेव स्त्रीणां वयः । तेन तदनुरोधेन ज्येष्वभार्यादिध- भिवादनम् ॥ १८॥ न सोपानवेष्टितशिरा अवहितपाणिर्वा. भिवादयीत ॥ १९॥ अवहितमाणिः समित्कुशादिहस्तः, दानादिहस्तोश ! अन्यत्प्रसिद्धम्॥ सर्वनाम्ना स्त्रियो राजन्धवैश्यौ च(३) न नाना ॥ २० ॥ १. 'वचन'मत्यधिक ख. पु. २. इद सूत्रं त्रिधा विभक्त ख. व. पु. ३. म माम्ना' इति पृषक सूत्रं कृतं क. पु