पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुशलप्रश्न.] उज्वलोपेते प्रथमः प्रश्नः । स्त्रिय सर्वनाम्नवाभिवादयीत अभिवादयेऽहमिति न नाना(१) साधा रणेन देवदत्तोऽहमभिवादय इति । एवं राजन्यवैश्चौ च ॥ २० ॥ भातरमाचार्यदारं चेत्येके ॥ २१ ॥ मातरमाचार्यदारं चैते अपि द्वे सर्वनाम्लेवाऽभिवादयीत । न नाम्ना भिवादयीतेत्येक सन्यन्ते । स्वमतं तु नाम्नैवेति ॥ २१ ॥ वयोविशेषणाभिवादन होनवणे नास्तीत्याह- दशवर्षश्च ब्राह्मणः शतवर्षश्च चत्रियः । पितापुत्रौ स्म तो विद्धि तयोस्तु ब्राह्मणः पित्ता ।। शिष्य प्रत्याचार्यस्याऽयमुपदेशः । स्मशब्दः श्लोकपूरणो निपातः । ब्राह्मणः क्षत्रिय इत्युपलक्षणमुत्तमाधमवर्णानाम् । विद्धि जानीहि । (२)शिष्टं स्पष्टम् ।।२२।। कुशलमवरवयसं वधस्य वा पृच्छेत् ।। २३ ।। ब्राह्मणविषयमिदम् । (३)क्षत्रियादिषु विशेषस्य यक्ष्यमाणत्वात् । वयसा तुल्यो वयस्यः । अवरवयस वयस्य वा ब्राह्मणं पथ्यादिषु सङ्गतं कुशलं पृच्छेत्-'अपि कुशल मिति ॥ २३ ॥ अनामयं क्षत्रियम् ॥ २४ ॥ पृच्छेत् 'अयनामयं भक्त' इति । आमयो रोग तदभावोऽनामयम् ।। अनष्टं वैश्यम् ॥ २५ ॥ 'अप्यनष्टपशुधनोऽसीति ॥ २५ ॥ आरोग्यं शूद्रम् ॥ २६॥ शूद्रभारोग्य पृच्छेत्-'अध्यरोगो भवानिति ॥ २६ ॥ नाऽसम्भाध्य श्रोत्रियं व्यतिव्रजेत् ।। २७ ॥ श्रोत्रियं पथि सतमसम्भाध्य न व्यतित्रजेत् न व्यतिक्रामेत् ॥ २७॥ १. असाधारणेन 'देवदत्तोऽहमभिवादये' इति क पुस्तके नास्ति । २. स्पष्टमन्य'दिति क. ख. च. पु. ३ इतरेषु इति क. पु. आप०ध० ११