पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिवाद्याः उज्वलोपेते प्रथमः प्रश्नः। यदि स्वयं प्रोष्य समागतो भवति । गुरवो वा प्रोष्य समागताः। उदापि ते उपलतायाः ॥ ७ ॥ भ्रातृषु भगिनीषु च यथापूर्वमुपसङ्ग्रहणम् ॥ ८॥ पूर्वणैव सिद्ध क्रमार्थ वचनभ्-यथापूर्व ज्येष्ठक्रमणेति ॥ ८॥ नित्या च पूजा ययोपदेशम् ॥ ९ ॥ (१) पूजा वर्णज्यायसां कार्या, वृद्धतराणां चेत्युपदेशानुरोधेन या नित्या पूजा सा यथापूर्व वृद्धक्रमेण ॥ ९ ॥ ऋविश्वशुरपितृव्यमातुलानवश्वयसः प्रत्युत्थायाभिवदेत् ॥ १० ॥ (२)त्रिवर्षपूर्व. श्रोत्रियोऽभिवादनमहतीति वक्ष्यति । तेनावरवयस ऋत्विगादयोऽयभिवादयन्ते । तानभिवादयमानान् प्रत्युत्थायाभिव देत् । नाम्येष्विव सुखमासीनोऽभिवदति। वयस्त उत्कृष्टानां तेषामिय मेव पूजा ॥१०॥ तूष्णीं बोपसंगृह्णीयात् ॥ ११ ॥ अथवा प्रत्युत्थाय स्वयमपि तास्तूष्णीमुपसगृह्णीयात् । विद्याचारित्राध पेक्षा विकल्पः॥११॥ अथाभिवाद्या उच्यन्ते- दशवर्षे पौरसख्यं पञ्चवर्ष तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमहति ॥ १२ ॥ पुरेभवं पौरम् । पौरं च तत्सख्यं च पौरसख्यं सेवादिनिबन्धन बा- न्धवं तदभिवादनस्थ निमित्तम् । कोदशम् १ दशवर्षान्तरालं, दशवर्षा- धिक पौरस्सखा अश्रोत्रियोऽप्यभिवाद्य इति विवक्षितम्। पञ्चवर्ष तु चारणम् । सख्यमित्युपसमस्तमप्यपेक्ष्यते। चारणशब्दः शाखाध्यायिषु रूढः । तेषां सख्यं पञ्चवर्षममिवादनस्य निमित्तम् । (३)श्रोत्रियं वश्यति । त्रिवर्षपूर्वः श्रोतियोऽभिवादनमर्हति । स त्रिवर्षपूर्वतामात्रेणाभिवादनमहति, न पूर्वसंस्तवमपेक्षते ॥१२॥ २. आप..११४. १३ १. आप.घ.१,१३२,३ ३ आप ध.२.६.४.