पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमहायज्ञाः] उज्वलोपेते प्रथमः प्रश्नः। योक्ताः। नन्विदानी ब्राह्मणानि नोपलभ्यन्ते । सत्यम्; तेषामुत्सन्नाः पाठा', अध्येतृदौर्बल्यात् । कथं तर्हि तेषामस्तित्वम् ? प्रयोगादनुमीयन्ते । प्रयोगः स्मृतिनिबन्धनमनुष्ठानं च । तस्माद्राह्मणान्यनुमीयन्ते मन्वादिभिर. पलब्धानीति । (१) कथमन्यथा स्मरेयुरनुतिष्ठयुर्वा । सम्भवति च तेषां वेदसयोगः॥१०॥ अथ प्रसङ्गादपस्मृतिरुच्यते- पत्र तु प्रीत्युपलब्धितः प्रवृत्तिन तत्र शास्त्रमस्ति ॥११॥ यत्र(२)पितृभ्यसलुनामातुलसुतापरिणयनादौ । प्रीत्युपलब्धितः प्रवृत्तिन तत्रोत्लनपाठं शास्त्रमनुमीयते, प्रातरेव प्रवृत्तिहेतोः लम्भवात् ॥ ११ ॥ तदनुवर्तमानो नरकाय राध्यति ॥ १२ ॥ तद्विधानमनुतिष्टनरकायैव राध्यति कल्पते ॥ १२ ॥ अथ ब्राह्मणोक्ता विधयः ॥ १३॥ एवं स्मृत्याचारप्राप्तानां श्रुतिमूलत्वमुक्तम् । (३) अथ प्रत्यक्षबाह्मणोक्ता एव केचिद्विधयो व्याख्यायन्ते तेषामपि स्मातेध्वनुप्रवेशार्थम् । तेन तद. तिक्रसे स्मातातिकमनिमित्तमेव प्रायश्चित्तं भवति ॥ १३ ॥ तेषां (४)महायज्ञा महासत्राणीति च संस्तुतिः ॥१४॥ तेषां वश्यमाणानां महायज्ञा इति संस्तुतिः स्वाध्यायब्राह्मगे । महासत्रा- गीति च संस्तुतिर्भवति बृहदारण्यकादौ । संस्तुतिग्रहणेन संस्तुतिमात्र मिदं न नामधेय(५) धर्मातिदेशार्थमिति दर्शयति । तेन महायज्ञेषु सोम १. कथमपरथा इति ख.पु. २. 'पितृध्वसृसुता' इति नास्ति ख. ग. पु. ३ अथेदा! इति ख. पु. ४ पञ्चव महायज्ञाः तान्येव महासत्राणि (श. बा. ११. ५.६.१ ) इति शतपथे। ५. कुण्डपायिनामयनाख्ये सवत्सरसाध्ये सत्रविशेष "मासमग्निहोत्रं जुहोतीति" श्रुतोऽग्निहोत्र शब्दस्तत्रत्यस्य कर्मविशेषस्य गोण्या वृत्या नामधेय सन् प्रसिद्धाग्नि- धर्मातिदेशक इत्युक्तं पूर्वमीमासायां सप्तमतृतीये । एव च क्वचित् नामत्वेनाभिधावृत्त्या प्रयुज्यमानस्य शब्दस्य प्रकरणान्तरेऽन्यत्र कर्मभामतया यदि श्रवणं, तदा न तन्त्र कर्मान्तरेऽपि तस्य शक्तिरङ्गीक्रियतेऽनेकार्थतादोषभिया । किन्तु प्रसिद्धतादृशकर्मनिष्ठगुणसमान गुणवत्वरूपां गौणी वृत्तिमाश्रित्य तबलात् तदीयधर्मातिदेशक. इति स्थितम् । प्रकृते तु न तथा । किन्तु स्तुतिमात्रमिति ।