पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प..४)क. १२. कारणचार्यसमयः श्रुत्यनुमानद्वारे प्रमाणम् । अतो वाक्यपरिसमा. शिरेष युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्वमिति। सूत्रे 'अगृहमान कारण' इति णत्वाभावश्छान्दसः ॥८॥ का पुनरसौ स्मृतिः ? या ब्रह्मयोऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्यते- (१) नेत्य के नास्स्यनध्यायो ब्रह्मसनं हि वत्स्मृतम् । इति । सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्माता- दृशी स्मृति मग्या । एवं तहग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह-- विद्यां प्रत्याध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥ विधा वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनमन्त्रागा कर्मयोगे । हेतुः परिभाषायामुक्तो(२)न्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् ।पारायणाध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥९॥ कथं पुनरायलमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञान सम्भवति । तन्नाह- ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठा: प्रयोगादनुमीयन्ते ॥ १० ॥ विधीयत्त इति विधयः कर्माणि । ते सर्व स्मार्ता अपि ब्राह्मणवे. तस्य उत्तरवदिस्थाहवनीयकुण्डे स्थापनार्थ अध्वयों गच्छति तं यजमानस्तत्पत्नीपुत्राद. योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु तत्र तमग्नि प्रतिष्ठाप्य, आच्छादनवनान्तं स्वग्दण्डे बच्चाऽऽज्येन जुहोति । ते वैसर्जनहोमा उच्यन्ते । तच्च वासः अध्जयवे दद्यात् इति प्रकृतवाक्यार्थ । स्मृतेरस्या लोभादिमूलकत्व. मापायातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र- सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् । १. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम् , यथा सहसूसंवत्सरादिक सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः । ३. अनुष्ठेयार्थप्रकाशकतया इत्यधिक ख. ग, पु. २.आप.५ १.४०.