पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ आपस्तम्बधर्मसूत्रे [(प.४)क. १३. यागेधु थे धर्माः 'न ज्येष्टं मातरमतीत्य सोमेन यष्टव्य मित्यादया, ये च महासत्रस्य गवामयनस्य धर्मा(१) इष्टप्रथमयज्ञानामधिकार' इत्या. दया उभयेऽपि ते वक्ष्यमाणेषु पञ्चमहायज्ञेषु न भवन्ति ॥ १४ ॥ के पुनस्ते ? तानाह- (२)अहरहभूतबलिमनुष्येभ्यो यथाशक्ति दानम् ॥ १५॥ वैश्वदेवे वक्ष्यमाणेन बलिहरणप्रकारेण भूतेभ्योऽहरहभूतबलियः, एष भूतयज्ञः ! मनुष्येभ्यश्च यथाशक्ति दान कर्तव्यम् । एष मनुष्ययक्षः ॥१५॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वादशी कण्डिका ॥ देवेभ्यः स्वाहाकार आ काष्ठात् पितृभ्यः स्वधाकार ओदपात्रात् स्वाध्याय इति ॥ १ ॥ देवेभ्यः स्वाहाकारेण प्रदानम् आकाष्ठात् अशनीयाभावे काष्ठमपि तावडेयम् । वैश्वदेधोक्तप्रकारेणैवैष देवयज्ञः । केचिद्वैश्वदेवाहुतीभ्यः पृथग्भूतामिमामाहुति मन्यन्ते । देवेभ्यः स्वाहेति च मन्त्रभिच्छन्ति । 'देवयशेन यक्ष्य' इति सङ्कल्पमिच्छन्ति । वयं तु न तथेति(३) गृह्य प वात्रोचाम । केचिदाहुः-"आकाष्ठा' दिति वचनादशनायाभावेन भोजन. लोपेऽपि यथाकथञ्चित् वैश्वदेवं कर्तव्यम, पुरुषसंस्कारत्वादिति । १. इष्टप्रथमयज्ञैर्यष्टव्यम् इति, ख. पु. “आहिताग्नय इष्टप्रथमयशा- गृहपतिसप्त- दशास्सत्रमासीरन्" इति सत्रेऽधिकारिनियमः। प्रथमयज्ञशब्देन सोमयाग उच्यतेऽग्नि- थोमसस्थाका । पूर्व कृताधानाः अनुष्ठिताग्निष्टोमसंस्थाकसोमयागाः द्वादशाहादिषु सत्रा- ख्येषु ज्योतिष्टोमविकृतिभूतेषु सोमयागेष्वधिकारिणः इति चाक्यार्थः । तादृशानां निय. मानां तत्रापेक्षा ! अधीतवेदस्य सर्वस्याऽप्यत्राधिकार इति भावः ।। २. “सूत्राणीमानि-शतपथब्राह्मणस्य काञ्चन प्रतिरूपतामनुभवन्ति" इयं हि शातपथी पंक्तिः-भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञः इति । अहरहर्भूतेभ्यो बलिं हरेत् । तथैतं भूतयज्ञ समाप्नोति, अहरहदादोदपानात् तथत मनुष्ययज्ञ समाप्नोति, अहरह- स्वधा कुर्यादोदपात्रात् तथैतं पितृयज्ञ समाप्नोति, अहरहस्स्वाहा कुर्यादाकाष्ठात्तथैनं देवयज्ञ समाप्नोति । अथ ब्रह्मयज्ञः । स्वाध्यायो वै ब्रह्मयज्ञ. इति । ३. आपस्तम्बगृह्यसूत्रस्यानाकुलातात्पर्यदर्शनसहितस्य चौखम्बामुद्रणालयमुद्रितस्य पुस्तकस्य १०४ पृष्ठे द्रष्टव्यम्।