पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुध्यायाः 1 उज्वलोपेते प्रथमः प्रशनः । सप्रदोषमहरनध्याय इत्येके भन्यन्ते । मनुश्यमुखेन देवेश्विज्यमाने. स्वित्यन्ये॥३॥ पर्युषितैस्तण्डुलैराममांसेन च नाऽनध्यायः ॥ ४ ॥ 'प्रेतसंक्लतं चाऽन्न (१०,२८)मित्यस्यापवादः। पर्युषिता राज्यन्तारताः यः प्रतिगृहीताः, तेषु तण्डुलेवध पक्त्वा भुज्यमानेषु नानध्यायः। तथा आममांसेन तदर्भक्षितेनापि नानध्यायः पर्युषितेनेत्येके । 'पर्युषितै' रिति वचनात्तदहक्षितैः सप्रदोषमहरनध्यायः॥४॥ तथौषधिवनस्पतिमूलफलैः॥५॥ ओषधिग्रहणेन वीरुधोऽपि गृह्यन्ते । वनस्पतिग्रहणेन वृक्षमात्रम् । तेषां मूलै. सूरणकन्दादिभिः फलैश्चाऽनादिभिः पक्कैरपक्कैश्च तदहभैक्षितैरपि नानध्यायः॥५॥ यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीपीत ॥ ६॥ यस्मिनहनि यत्काण्डमुपाकृतं न तत्तदहरधीयीत । तथा श्रापण्यां पौर्णमा- स्थामुपाकृत्य प्रशस्तेऽहरन्तरे यस्य काण्डस्यानुवाक्यमध्ये तुमा. रम्भ कुर्वीत न तत्तदहरधीयीत । अहरित्यहोरात्रोपलक्षणम् ॥ ६ ॥ उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ॥ ७॥ अनेकवेदाध्यायी यधेकस्य वेदस्य पारायणं कुरुते तदा तस्य पारा- यणस्य (१)ये उपाकरणोत्सर्जने, तयोः कृतयोस्ता विद्या तदहर्नाऽधीयीत । एतदेव झापकं पारायणस्याऽप्युपाकरणोत्सर्जने भवत इति । तां विद्या मिति वचनाद्विद्यान्तराध्ययने न दोषः॥७॥ वायुर्घोषवान् भूमौ तृणसंवाहो वर्षति वा पत्र धारा प्रवत् ॥ ८॥ घोषवान् कर्णश्चयः । भूमाधवस्थितानि तृणानि संवाहयति उत्क्षिप्य गमयतीति तृणसंवाहः । वर्षति वा (२)मेघे धाराः प्रबहे विक्षिपेत् । यत्र देशे एवंविधो वायुस्तत्र तावन्तं कालं नाऽधीयीत । अत्र मनुः-- (३) कर्णभवेऽनिले रात्रौ दिवा पांसुसमूहने" ॥ इति ॥ ८ ॥ १. उपाकरणोत्सर्जनयोः कृतयोः, इति ड. पु. २. देवे. इति क. पु. ३. म, स्मृ. २. १०२