पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. आपस्तम्बधर्मसूत्रे [(५.३.)क,११. प्रेतसंक्लसं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः ॥२८॥ यो मृतोऽसपिण्डीकृतस्स प्रेतः । तदुदेशेन दत्तमन्नं भुक्त्वा सम्र. दोषमहर्नाऽधीयीत । प्रदोषाढू न दोषः । अत्र मनुः- (१)यावदकानुदिष्टस्य गन्धो लेपश्च तिष्ठति । विषस्य विदुषो देहे तावद्रह्म न कीर्तयेत् ॥ इति ॥२८॥ आ च विपाकात् ॥ २९ ॥ यदि तावता कालेज तदा पकं जीर्ण न भवति, तत आविपाकात् तस्य नाऽधीयीत ॥ २९ ॥ अश्राद्धेन तु पर्यवदध्यात् ॥ ३० ॥ जीर्णे अजीर्णे च तस्मिन् अश्राद्धेनाऽनेन पर्यवदध्यात् तस्योपर्यश्राद्धमनं भुञ्जीतेत्युक्तं भवति । केचित् अत्र 'अश्राद्धेने' ति वचनात् पूर्वत्रापि प्रेतानमिति श्राद्धमात्र विवक्षितं मन्यन्ते ॥ ३० ॥ ॥ इत्यापस्तम्बधर्मसूत्रे तद्वत्तायुज्वलाया च दशमी कण्डिका ॥ काण्डोपाकरणे चाऽऽमातृकस्य ॥१॥ काण्डोपाकरणं काण्डव्रतादेशनम् । तस्मिन्नहनि अमातृकस्यानं भुक्त्वा सप्रदोषमहरनध्यायः। अपर आह-भुक्त्वेति नाऽनुवर्तते । यथाचोत्तरत्र भुक्त्वानहणम् । काण्डोपाकरणे अमातृकस्य माणवकस्य सप्रदोषम- हरनध्यायः। एतेनोत्तर व्याख्यातम् ॥१॥ काण्डसमापने चाऽपितृकत्य ॥२॥ काण्डसमापनं व्रतविसर्गः ॥२॥ मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ॥३॥ ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवास्सम्पन्नास्ते मनुष्यप्रकृतयो (२)नन्दिकुबेरादयः । तेषां यशा तत्प्रीत्यर्थ ब्राह्मणभोजनम्, तत्र भुक्त्वा २. 'नन्दीश्वरशरकुमारादयः' इति पाठान्तरम् । १.मनु स्मृ ४. १११.