पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(प.३.)क. ११. उत्तरे द्वे सूने निगदलिद्धे- (१)ग्रामारण्ययोश्च सन्धी महापथे च चिोष्य च समध्ययनं तदहः ॥ ९॥ यदा(२) सहाऽधीयानाः कारणवशाद्विमवसेयुः । केचिच्चाचार्येण वा सङ्गतास्तदा समध्ययनं सहाऽधीयमानं प्रदेश तदह धीचीत । विप्रो. षितानां पदहः पुनर्मेलनं तदहन धीयीतेत्यन्ये ॥ ९ ॥ स्वैरिकर्मसु च ॥१०॥ नाधायीतेत्येव ॥१०॥ अत्रोदाहरणम्- यथाहस्तप्रक्षालनोत्सादनानुलेखणानीति ॥ ११ ॥ पदमाकरिमकम, अपपाठो वा ॥ ११ ॥ तावन्तं कालं नाऽधीयीताऽध्यापयेद्वा ॥ १२ ॥ तेषु स्वैरिकर्मसु ताबन्त कालमध्ययनमध्यापनश्च वर्जयेत् ॥ १२ ॥ सन्ध्योः ॥ १३ ॥ सज्योतिषोऽज्योतिपोऽदर्शनात् उभे सन्ध्ये। तयोस्तावन्तं कालं नाधीयौताध्यापयद्वा । एवमुत्तरत्राप्यनुवृत्तिः ॥ १३ ॥ उत्तरे द्वे सूत्रे निगदसिद्ध- तथा वृक्षमारूढोऽसु चावगाढो नक्तं चापावृते॥१४॥ विवृतद्वारमपावृतम् । तत्र नक्तं माधीयीत ॥ १४॥ दिवा च पिहिते ॥ १५ ॥ संवृतद्वार पिहितम् । तत्र दिवा नाधीयीत ॥ १५ ॥ अविहितमनुवाकाध्ययनमाषाडवासन्तिकयोः ॥१६॥ वासन्तिको वसन्तोत्सवः । स च चैत्रमालि शुक्लत्रयोदश्यां भवति । आषाढशब्दनापि तस्मिन्माले क्रियमाणस्तादृशः कश्चिदिन्द्रोत्सवादि- विवक्षितः। तयोस्तदहरनुवाकाध्ययनमविहितम् । अनुवाकग्रहणान्न्यू- ने न दोषः। १. इद ११ शं च सूत्रं त्रिधा विच्छिन्न ड, पु. २. सहाधीयमानेषु केचित् इति. ख. पु.