पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः] उज्वलोपेते प्रथम प्रश्नः ! षितुं ब्रामणेन सम्भाध तथा सम्भाषेत । सम्भाष्य तुब्राह्मणेनैव सम्भाष्याऽधीयीत। एवं तस्याः प्रजानिःश्रेयसम् ॥१३॥ यो घेदमध्येष्यमाणो मलवद्वाससा रजस्वलथा सह सम्भाषितुमि च्छति स पूर्व ब्राह्मणेन सम्भाष्य पश्चात्तया सम्भाषेत । सम्भाष्य च पुनरपि ब्राह्मणेनैव सम्माच्याऽधीयीत । किमेवं सति भवति ? एवं तस्या मलवद्वासस आगामिनी या प्रजा तस्या निःश्रेयसमभ्युदयो भवति। प्रजारूपं वा निःश्रेयस तस्या भवति । 'प्रजानिःश्रेयसमिति वचनात् विधवादिभिः सह सम्भाषणे नैतत्कर्तव्यम् ॥ १३ ॥ (१) अन्तइशवम् ॥ १४ ॥ अन्तश्शवो यत्र ग्रामे तत्र नाध्येयम् । एतेना 'न्तश्चाण्डालमिति व्याख्यातम् ॥ १४॥ अन्तवाण्डालम् ॥ १५ ॥ खण्डाल एवं चाण्डाल । उभयत्र प्रथमा सप्तम्यर्थे । अव्ययीभावो वा विभक्त्यर्थे द्रष्टव्यः ॥१५॥ (२)अभिनिस्मृतानां तु सीमन्यनध्यायः ॥ १६ ॥ यदा शवाः सीनि अभिनिस्सृता भवन्ति तदा तत्राऽनध्यायः ॥ १६ ॥ सन्दर्शने चाऽरण्ये ॥ १७ ॥ अरण्येच यावति प्रदेशे शवश्चण्डालो वा सन्दश्यते तावत्यन- ध्यायः॥१७॥ तदहरागतेषु च ग्रामं बाह्येषु ॥ १८ ॥ वाथा उग्रनिषादादयः परिपन्थिनः तेषु च प्राममागतेषु तदहरनध्या था तस्मिनहानि नाऽध्येतव्यम् ॥ १८॥ अपि सत्सु ॥ १९ ॥ ये विद्याचरित्रादिभिर्महान्तः सन्तः तेष्वपि ग्राममागतेषु तदहर नध्यायः॥१९॥ १. मनु.४.१०८ दत्रद्रष्टव्यः । १ अभिनिहताना इति, ख. पु.