पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.३.)क. १. सन्धावनुस्तनिने रात्रिम् ॥ २० ॥ सन्धिः सन्ध्या तस्मिन् सन्धौ । अनुस्तनिते बेघगर्जिते सति रात्रि (१)सी रात्रि नाऽधीयीता वर्षाविदम् ! अन्यस्मिन्नधिकं वक्ष्यति ॥२०॥ स्वमपर्यान्तं विद्युति ।। २१ ।। अन्त्यो दीर्घ उपान्त्यो हस्वः । विपर्यासश्चान्दसोऽपपाठो का । सन्धी विधुति सत्या स्वप्नपर्यन्तां रात्रिमनध्यायः न सर्वाम् । स्थानपर्यन्ता रामिः प्रहरावशिष्ट ॥ २१ ॥ एवं सायं सन्ध्यायामुक्तं, प्रातस्सन्ध्यायामाह- उपव्युषं यावता वा कृष्णां रोहिणीमिति शम्या. प्रासाविजानीयादेतस्मिन्काले विद्योतमाने सप्रदोषमहरनध्यायः ॥ २२ ॥ उपव्युषं उपस्समीपे तत्र विद्योतमाने विद्युति सत्यामपरशुस्सप्रदो. षमहरनध्यायः । प्रदोषादूर्व राजावध्ययनम् । यावता वा कालेन शम्याप्रा. सादागवस्थितां गां कृष्णामिति पा रोहिणीमिति वा विजानीयात् । एत. स्मिन्काले उपव्युषं विद्योतमान इत्यन्वयः । रोहिणी गौरवर्णा । इतिशब्द. प्रयोगे द्विताया प्रयुज्यते । तत्राऽन्वयप्रकारश्चिन्त्य। ॥ २२ ॥ दहेऽपरराने स्तनायित्नुना ॥ २३ ॥ रात्रेस्तृतीयो भागः सर्वोऽपररात्रः। तस्य श्रेधा विभक्तस्याद्योंशो महारानः। अन्त्यो दहः । तस्मिन् दहेऽपरराने सनायनुना निमित्तेन सप्र- दोषमहरनध्यायः ॥ २३ ॥ ऊर्ध्वमर्धरात्रादित्येके ॥ २४ ॥ अर्धरात्रादूर्वमनन्तरोक्तो विधिरित्येके मन्यन्ते । स्वपक्षस्तु वह पवति ।। २४॥ गवां चाऽवरोधे ॥२५॥ दस्युप्रभृतिभिरवरुद्धासु गोषु तावन्तं कालमनभ्यायः । अवरोधो प्रामानिनमनिरोधः ॥२५॥ ध्यानां च यावता हन्यन्ते ॥ २६ ॥ १. अस्य सूत्रत्वेन परिगणन कृतं क पु.