पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः] उज्वलोपेते प्रथम प्रईनः । एवमध्येतुरध्यापयितुश्च धर्मा उक्काः। अथ देशकालकृता अध्ययन- धर्मा उच्यन्ते- श्रावण्यां पौर्णमास्यामध्यापनुपाकृत्य भासं प्रदोषेनाऽधायीन ॥१॥ मेषादिस्ये सवितरि यो यो दर्शः प्रवर्तते । चान्द्रमासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः । तेषु या या पौर्णिमासी सा सा चश्यादिका स्मृता। कादाचिकेन योगेन नक्षत्रस्येति निर्णयः ।। तदेवं सिंहस्थे सवितरि याऽमावास्या तदन्ते चान्द्रमले मासे या मध्यवर्तिनी पौर्णमाली सा श्रावणी । श्रवणयोगस्तु भवतु वा मा था । तस्यां श्रावण्या पौर्णमास्यामध्यायमुपाकृत्य गृह्योकेन विधिनोपाकर्म कृ. स्वा स्वाध्यायमधीयीत । अधीयानश्च मासमेक प्रदोषे प्रथमे रात्रिभागे ना धीयात ग्रहणाध्ययनं धारणाध्ययन च न कुर्यात् । प्रदोषग्रहणादात्रा धन्यूर्व न दोषः ॥ १॥ तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् ॥ २॥ तिध्या पुण्या, तेन युक्ता पौर्णमासी तैषी श्रावणीवत्। तस्यां विरमेत् । उत्सर्जनं कुर्यात् । तस्यापि प्रयोगो(१)गृह्य एवोक्तः। हिण्यां वा, (२)ते. षमालि तिच्यात्पूर्वी या रोहिणी तस्यां वा विरमेत् । अनयोः पक्षयो। पञ्च मासानधीयीत ॥२॥ अर्धपश्चमांश्चतुरो मासानित्येके ॥ ३ ॥ अर्धः पञ्चमो येषां ते अर्षपञ्चमाः । अर्धाधिकांश्चतुरो मासान् अधीयते त्यपेक्ष्यत (३)इत्येके मन्यन्ते । अस्मिन्पक्षे प्रोष्ठपद्यामुपाकरणं शास्त्रान्त. रदर्शनात् । उत्सर्जनस्य वा प्रतिकर्षः । उत्सर्जने च कृते श्रावण्या: प्राक् शुक्लपक्षेषु धारणाध्ययनं वेदस्य, कृष्णपक्षेषु व्याकरणाधङ्गाध्य. बनम् । पुनःश्रावण्यामुपाकश्यागृहीतभागस्य ग्रहणाध्ययनमिति । प्र. पश्चितमेत(४)ग्रो ॥३॥ १. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जनपटलव्याख्यानेऽनाकुलायामित्यर्थ । (आप, मृ. सू. पृ. १५४ ) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनाख्यः पटल. आपस्तम्बगृह्या म्तगतो व्याख्यात इत्यक्यम्यते इति न्यरूपयाम गृह्याटिप्पण्याम् । "२,'तिध्ये मासि भवा या रोहिणी' इति ड. पु. ३.अत्र मनुः४, ९५. द्रष्टव्यः । ४ आप. गृ. ७. १. पृ. ११०.