पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.२)क.८. अपराधेषु चैनं सततमुपालभेन ॥ २९ ॥ अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥२९॥ अभिनास उपवास उदकोपस्पर्शनमदर्शन मिति दण्डा यथामात्रमानिवृतेः ॥ ३० ॥ अभिनासो (१)भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पशन शीतोदकेन स्नापनम् । अदर्शन यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः। सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामानं यावत्यपराध मात्रा तदनुरूपं व्यस्ता समस्ताश्च । आनिवृत्ते. याचदसौ न ततोऽपराधा- निवर्तते ताबदेते दण्डाः॥३०॥ निवृतं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ३१ ॥ एवं चरितब्रह्मचर्य निवृत्तं गुरुकुलात कृतसमावर्तनमित्यर्थः । एवंभूत. मन्येभ्यो धर्मभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्व. मन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमु त्सृजेत् ॥ ३१॥ हत्यापस्तम्बसूत्रवृत्ताधुज्वलायामष्टमी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥ १ रज्जुदेवादिना भयोत्पादनम् इति, ख. पु.