पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.१.)क.३. आधिकं सार्ववर्णिकम् ॥ ७ ॥ आविरूयुः। स एवाऽऽविकः । तस्य चर्भाऽऽविक, तत्सर्वेषामेव वर्णानाम् । अस्य हारिणादिभिर्विकल्पः ॥७॥ कम्बलश्च ॥८॥ अयमच्याविक एव । प्रावरणमेव सर्वेषाम् ।। ८ । 'काषायं चैके वस्त्रमुपदिशन्ती' त्यारभ्य वासांस्यजिनानि च विहितानि । तत्र कामवशेन विशेषमाह-- ब्रह्मवृद्धिमिच्छन्नजिनान्येक बसीत, क्षत्रवृद्धिमि- च्छन् वस्त्राण्येव, उभयवृद्धिमिच्छन्नुभय. मिति हि(१) ब्राह्मणम् ॥ ९॥ ब्रह्मवृद्धिः ब्राह्मणवृद्धिः क्षत्रवृद्धिः क्षत्रियवृद्धिः ॥९॥ अथ स्वपक्षमाह- अजिनं त्वेवोत्तरं धारयेत् ॥ १० ॥ उत्तरमुत्तरीयम् । तदजिनमेव धारयेत् ॥ १० ॥ (२)अनृत्तदर्शी ॥११॥ नृत्तं न पश्येत् ।। ११॥ सभा समाजाश्चान्ता ।।१२।। द्यूतादिस्थान सभा । उत्सवादिषु समवायः समाज. । तासभाममा जाश्च अगन्ता ताच्छील्येन न गच्छेत् । यदृच्छया गमने न दोषः ॥२॥ अजनबादशील: जनवादः परिवादः लोकवार्ता वा, तछालो न स्यात् ।। १३ ।। रहश्शील: ॥ १४ ॥ . १ अत्र गोपथब्राह्मणस्य प्रथमप्रपाठकस्य द्वितीया कण्डिका द्रष्टव्या । २. इमे नियमा गोपथब्राह्मणे विहिताः "नोपरिशायी स्थान गायनो न नर्तनो न स रणो न निष्ठीवेत् यदुपरिशायी भवत्यभीक्षा निवासा जायन्ते, यद्गायनो भवत्यभीक्ष्णश आक्रन्दान धावन्ते, यन्नतनो भवत्यभीक्ष्णश प्रेतानिहरन्ते, यत्सरणा भवत्यर्भीक्ष्णशः प्रजास्सविशन्ते, यनिष्ठावति मध्य एव तदात्मनो निष्ठीवति" इति । गो ब्रा. १. २. ७,