पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः। राणस्य विकारः शाणी पटी। क्षुमा अतली तस्या विकारः क्षोभम् । वेत्रवाण्यवासोविशेष इत्यन्थे । अजिन यस्य कस्यचिन्मेध्यस्य पशो। श्रीध्येतानि वर्गानुयूयण वासांलि ॥ ४० ॥ काषायं चै के वनपदिशान्ति !! ४१ । एके आचार्या वन स्वोधार्यमुपदिशन्ति । वस्त्र कार्पासम् । तच काषायं कषायेण रकम् । साक्षणस्येत्यर्थादम्यते । इतरयोर्वक्ष्यमाण-वात् ॥४१॥1 इत्यापस्तम्वधर्मसूत्रे प्रथम प्रश्ने द्वितीया कण्डिका ॥२॥ माजिष्ठं राजन्यस्य ।। १॥ मञ्जिष्ठया रक्तं माशिष्ठम् ॥ १॥ हारिद्रं वैश्यस्य ।। २॥ हरिद्रया रक्त हारिद्रम् ।। २ ।। हारिणमैणयं वा कृष्णं ब्राह्मणस्य ॥ ३ ॥ एलान्युत्तरीयाणि । 'वस्ताजिन' मिति वक्ष्यमाणत्वात् इहाध्यजिन- मिति गम्यते । (१)अजिनमुत्तरमुत्तरये त्युपनयने यदजिनमुक्कं धार्य सद्धारण ब्राह्मणस्य ; हरिणो मृगस्तस्य विकारः हारिणम् । ऐणेयं वा कृष्णम् । एणी मृगी तस्या विकार ऐणेयम् । (२)एण्या ढञ् । द्विविधा एण्यः कृष्णाश्च गौराश्च । अतो विशेषरते-कृष्णमणेयमिति ॥ ३॥ अस्मिन् पक्षे विशेषमाह- कृष्णं चेदनुपस्तीर्णासनशायी स्थात् ॥ ४ ॥ कृष्णं चेद्विभूयात न हारिणं ततस्तस्मिन्नुपस्तीणे नासीत, न च शयीत । अयं तावदर्थ शब्दनिर्वाह (३) त्वधासनशायो त्यत्र कृतः ॥७॥ रौरवं राजन्यस्य ॥ ५ ॥ रुरुबिन्दुमान्मृगः॥५॥ बस्ताजिनं वैश्यस्थ ॥६॥ बस्तश्छागः ॥६॥ । २. पा सू. ४. ३. ५९ ३ आप.प.१.२,२१, १. आप० ११ ११. आप०ध०३