पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'सोचमाणां समयपदानी' त्युक्तं पुरस्तात् । के पुनस्ते आश्रमाः ? इत्यत आह- चत्वार आश्रमा गार्हस्थ्य, माचार्यकुलं, मौनं, वानप्रस्थयामिति ॥ १॥ आश्राम्यन्त्येषु श्रेयोऽर्थिनः पुरुषा इत्याश्रमाः । एषा सामान्य संशा । गृहे तिष्ठत्ति कुटुम्बरक्षणपर इति गृहस्थः । तस्य मावो गार्हस्थ्यम् । स एक आश्रमः । आचार्यकुल तत्र चासो लक्षणया सोऽप्येकः। 'मनु अवबोधन' मनुत इति मुनिज्ञानपरः । तस्य भादो मौनम् । सोऽपरः । वन प्रतिष्ठत इति वनप्रस्थः । स एव वानप्रस्थः । प्रज्ञादित्वादण । तस्य भावो वानप्र. स्थ्यम् । इतिशब्दः परिसमाप्त्यर्थ । एतावन्त एवाऽऽश्रमा इति । चतुर्णा मेवोपदेशेऽपि चत्वार इति वचनं "(१)काश्रम्यं त्वाचार्याः प्रत्यक्ष- विधानात् गार्हस्थ्यस्येति स्मृत्यन्तरोत मा ग्राहीदिति ॥ १॥ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥ तेष्वाश्रमेषु चतुर्ध्वपि यथाशास्त्रमध्यप्रस्समाहितमना भूत्वा यो वर्तते, स क्षेममभयं पदं गच्छति । अनेनाऽऽश्रमविकल्प उक्तो वेदितव्यः निश्रेयसायिनाऽन्यतमस्मिन्नाश्रमे यथाशास्त्रमवाहतेन वर्तितव्यमिति । तथा च गौतमः-(२)'तल्याऽऽश्रमविकल्पमके ब्रुवत' इति ॥ २॥ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ॥ ३ ॥ उपनयनप्रभृति य आचार्यकुले बालोऽष्टाचत्वारिंशद्वर्षादानामन्यत- मस्त सर्वेषामाश्रमाणां समानः ॥३॥ सर्वेषामनूत्खगों विद्यायाः ॥ ४ ॥ अनूत्सर्ग. छान्दलो दीर्घः । विद्याया अनूस्सोऽपि सर्वेषामाश्रमाणां समानः । तस्मादाचार्यकुले वासस्समान इति ॥४॥ बुध्वा कर्माणि यत्कामयते तदारत ॥ ५ ॥ प्रत्याश्रमं यानि कर्माणि विहितानि, तानि बुध्या गृहस्थस्यैतानि १. गो. ध. ३. ३६. २. गो. ध. ३, १.