पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आश्रमाः] उज्ज्वलोपेते द्वितीयः प्रश्नः । कर्तव्यानि । एषामन नुष्ठाने प्रत्यवायः । फलं चेदमेषाम् , एतानि शक्या न्यनुष्ठातुं, नैलानी याचार्यादुपश्रुत्य यत्कर्म फल वा कामयेत तदारभेत तमाश्रमं प्रतिपद्यतेति ॥ ५॥ तत्र गार्हस्थ्यस्य पूर्वमेव प्रपञ्चितत्वादध्यश्नानन्तर प्रतिपित्सित स्याऽऽचार्यकुलस्य स्वरूपमाह- यथा विद्यार्थस्य नियम एतेनैवान्तमनुपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ॥६॥ यथा विद्यार्थस्य उपकुर्वाणस्य ब्रह्मचारिणः 'अथ ब्रह्मचर्यावधि रि. त्यारभ्याऽग्नीधनाधिनियम उक्त.. अतस्तेनैव नियमेनाऽऽन्तमाशरीरपाता. दनूपसीदतः उपसदनमेवानुपसदनं तस्कुर्वतः आचार्यकुले शरीरन्यास. परि- त्यागो भवति ब्रह्मचारिणः नैष्टिकस्य । तत्रैवाऽऽमरणात्तिष्ठत्, नाऽऽश्रमा न्तरं गच्छेत् । यदि तमेवाश्रममात्मन. क्षेमं मन्येतेति मनु.-- (१) आचार्य तु खलु प्रेते गुरुपुत्रे गुणान्विते ! गुरुदारे सपिण्डे वा गुरुवदृत्तिमाचरेत् । एषु त्वविद्यमानेषु स्थानासन विहारवान् । प्रयुक्षानोऽग्निशुश्रूषां साधयेहेहमात्मनः ।। एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमं स्थानं न चेहाऽऽज्ञायते पुनः ॥' इति॥६॥ अथ परिवाजः ॥ ७॥ अथाऽनन्तर परिबाजो धर्म उच्यते । दृष्टादृष्टान् सर्वानेवाऽऽरम्भान् परित्यज्याऽऽत्मलाभाय सन्यासाश्रमं परिवजतीति परिबाट सन्यासी अत एव ब्रह्मचर्यवान प्रव्रजति ॥ ८ ॥ अत एव ब्रह्मचर्याश्रमादेव ब्रह्मचर्यवानविप्लुतब्रह्मचर्यः प्रव्रजति परिव्रज्यां कुर्याद्यदि तथैव पक्वकषायो भवति । श्रूयते च(२) 'ब्रह्मचर्यादेव प्रव. जेत् गृहाद्वा वनाद्वेति, यदहरेव विरजेत्तद्हरेव प्रबजेदिति च । अत्र केचिदाहुः-'अत एवेति वचनात् गृहाश्रमं प्रविष्टस्य तत्परित्यागेना- श्रमान्तरमातिराचार्यस्याऽनभिमतैवेति लक्ष्यते । तत्रायमभिप्रायः-दार- परिग्रहे सति 'यावज्जीवमग्निहोत्रं जुहुयादिति श्रुत्या विरुध्यते । स १.म.म. १४७-२४९. २. जाबालो. ४.