पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ट्यर्थप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । यज्ञायत्परिचक्षते ॥ १७ ॥ यच्चान्यदेवं उक्तव्यतिरिकं तृणच्छेदनादि शिधा परिचक्षते गर्हन्ते तंदपि वर्जयेत् ॥१७॥ योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च ॥ १८ ॥ एकश्चशब्दोऽनर्थकः । केचिन्नैव पठन्ति । धर्माविरुद्धा ये द्रव्यप. रिग्रहास्तेषु च योक्ता उत्पादयिता स्थानिरीहस्स्यात् ॥ १८ ॥ प्रतिपादयिता च तीथै ॥ १९ ॥ तीर्थ गुणवत् पात्रं, यज्ञो वा । तत्र द्रव्यस्याऽर्जितस्य प्रतिपाद- यिता स्यात् ॥ १२ ॥ चन्ता चाऽतीर्थ यतो न भयं स्यात् ॥ २० ॥ यन्ता नियन्ता अप्रदाता अतीर्थे अनक्षता च स्यात् । यतः पुरुषादन- दानेऽपि न भयं स्यात् । भयसम्भवे तु पिशुनादिभ्यो देयम् ॥ २० ॥ सङ्ग्रहीता च मनुष्यान् ॥ २१ ॥ अर्थप्रदानप्रियवचनानुसरणादिभिर्मनुष्याणां सङ्ग्रहणशीलस्स्यात्र भोक्ता च धर्माविप्रतिषिद्धान् भोगान् ॥ २२ ॥ धर्माविरुद्धा ये भोगाः स्त्रक्चन्दनस्वभार्यालेवनादया. तेपांच भोगशीलस्स्यात् ॥ २२ ॥ एवमुभौ लोकाभिजयति ॥ २३ ॥ एवं महत्या पुष्टया युक्त उक्त प्रकारमनुतिष्ठन्नुभो लोकायभिजयति भोगेनेमं लोक, तीर्थे प्रतिपादनेन चाऽमुं लोकमिति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने विंशी काण्डका ॥ २० ॥ इति चापस्तम्वधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु. ज्ज्वलायां द्विनीयप्रश्नेऽष्टमः पटलः !! ८॥