पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्यश्राद्धम् ] उज्वलोपेन द्वितीयः प्रश्नः । तानि च भुक्तवद्भयो दद्यात् ॥ १०॥ तानि भाण्डानि कांस्यादीनि च भुकवद्भयो ब्राह्मणेभ्यो दद्यात् । एवं प्रत्यहम् ॥१०॥ समुदेतांश्च भोजयेत् ॥ ११ ॥ समुदतवचनं गुणाधिक्यार्थम् ॥ ११ ॥ न चाऽसदगुणायोच्छिष्टं प्रयच्छेत् ॥ १२ ॥ भाण्डेषु यल भुक्तशिष्टं तदिहोच्छिष्टम् । तदप्यतद्गुणाव भुक्तवर्ता ये गुणास्तद्रहिताय न दद्यात् तागायत दयादिति(१) ॥ १२ ॥ एवं संवत्सरम् ॥ १३ ॥ एवमेतन्नित्यशाद्धं सवत्सरं कर्तव्यमहरहः ॥ १३ ॥ तेषामुत्तमं लोहेनाजेन कार्यम् ॥ १४ ॥ तेषां संवत्सरस्थाहां उत्तमम इस्समाप्तिदिनम् । लोहेन लोहितवर्णन अजेन श्राद्धं कर्तव्यम् । दृश्यते चाप्यन्यत्राऽस्मिन्नथै लोहशब्द:-(२) 'लोहस्तूपरो भवत्यप्यतूपरः कृष्णसारङ्गो लोहितसारको वेति । च. मकेषु च भवति (३) श्यामं च मे लोहं च म' इति ॥ १४ ॥ मानं च कारयेत्पतिच्छन्नम् ॥ १५ ॥ मान विष्ण्यं घेदिका | दृश्यते हि मिनोतरस्मिन्नर्थ प्रयोगः अनेणाअग्नीनं चतुर उपनाचं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चा. निनतमिति। स पवायमुपसर्गरहितस्य प्रयोग । तं भानं कारयेत् कर्म- करैः, प्रतिच्छन्नं च तद्भवति तिरस्करिण्यादिना । इदमपि ग्रामादबहिरेव ।। तस्योत्तरार्धे ब्राह्मणान् भोजयेत् ॥ १६ ॥ तस्य मानस्योत्तरस्मिन्नर्धे ब्राह्मणा भोजयितव्याः॥ १६ ॥ उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितृनित्युपदिशन्ति ॥ १७ ॥ १. तदलाभे एतानि भुक्तबद्भयो ददाति उच्छियानि श्राद्धे भुक्तवद्य एव दद्यात् ॥ इत्यधिक घ. पुस्तके। २. लोहेन इति प. पु. ३ ते स. ४. ७, ५. "अग्नाविष्णू सजोषसा" इत्याद्या एकादशानुवाकाः चमका इ. त्युच्यन्ते 'चमे' शब्दघटित्वात् ।