पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.८.)क.१८. अधोनाभ्युपरि जान्वाच्छाद्यति व्याख्यातम् (१.२४.११) त्रिषवण त्रिषु सवनेषु प्रातमध्यन्दिने लायमिति उददमुपस्पृशन् स्नान कुर्वन् । अनग्गि- पत्रवृत्ति, वृत्तिः शरीरयात्रा, ला अग्निपक्केन न कार्या । अग्निग्रहणात् कालपकस्याऽऽनाइरदोषः। अच्छायोपगतः छायामनुपगच्छन् । स्थानास निकः स्थानासनवान् । दिवास्थानं राधाबालन न कडा चिच्छयनम् । एतत् विलयनं माथित मित्यारभ्याऽनन्तरमुक्त सवत्सरं व्रत चरेत । एत इतमष्टाचत्वारिंशवर्षसाध्येन ब्रह्मचारिव्रतेन सम्मित सदृशं यावत्तस्य फलं तावदस्यापीत्याचक्षते धर्मशाः । न केवल मृत्यादिकमेव प्रयो जनमिति। अपह आह-'विलयनं मथित'मित्यादिकं व्रतान्तरं स्मृत्यादिकाम- स्थ। अधोनाभी'त्यादिकं तु सम्मितं व्रतमिति । एतच्च ब्रह्मचारि णो गृहस्थस्य च भवति। तथा च बौधायन:- (१) अष्टाचत्वारिंशत्सम्मितमित्याचक्षते तस्य सङ्क्षपः संवत्सरः। सं संवत्लरमनुव्याख्यास्यामः-स यदि ब्रह्मचारी स्थानिय मेव प्रति. पद्येत । अथ यद्यपि ब्रह्मचारी स्यात् केशाश्मश्रुलोमनखानि बापाय स्वा तीर्थ गत्वा स्नात्वेत्यादि ॥५॥ नित्यश्राद्धम् ॥ ६॥ अधाऽहरहः कर्तव्यं श्राद्ध मुख्यते । तस्य नित्यश्राद्धमिति नाम ॥ ६ ॥ बहिमाच्छुचयः शुचौ देशे संस्कुर्वन्ति ॥ ७ ॥ तन्निस्यश्राद्धं बहिनामाकर्तव्यं तस्याऽनसरकारः शुचौ देशे अन्नं संस्कुर्वन्ति । शुचय इति वचनमाधिक्यार्थम् । आःप्रयता इति पूर्व- मेव प्रायत्यस्य विहितत्वात् ॥ ७॥ तत्र नवानि द्रव्याणि ॥८॥ तत्र नित्यश्राद्धे द्रव्याणि नवान्येव प्राह्याणि ॥८॥ कानि पुनस्तानि ? यैरनं सस्क्रियते येषु च भुज्यते ॥९॥ यैर्भाण्डेरनं संस्क्रियते येषु च कांस्यादिषु भुज्यते तानि नवानीति ॥९॥ १, नेदमद्योपलभ्यमानबौधायनीये धर्मसूत्र उपलभ्यते ।