पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठः पटलः॥ सवर्णापूर्वशास्त्रविहितायां यथतु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धः ॥ १ ॥ सवर्णा चाऽसावपूर्वा च शास्त्रविहिता चेति कर्मधारयः । सवर्ण सजातीया, ब्राह्मणस्य ब्राह्मणीत्यादि । अपूर्वा । अनन्यपूर्वा अन्यस्मा अदत्ता, न विद्यत्ते पूर्वः पतिरस्या इति । शास्त्रीवहिता शास्त्रोक्तेन विवा हसंस्कारेण संस्कृता 'सगोत्राय दुहितरं न प्रयच्छे (२. ११. १५) दित्यादिशास्त्रानुगुणा वा । एवम्भूतायां भार्यायां यथत गृहोक्तेन ऋतुगमनकल्पेन गच्छतो ये पुत्रा जायन्ते तेषा 'स्वकर्म ब्राह्मणस्ये' (२.१०. ४) त्यादिना पूर्वमुक्तः कर्मभित्सम्बन्धो भवति । ( गच्छध इति धकारोऽपपाठ:)॥१॥ दायेन चाऽव्यत्तिकमश्चोभयोः ॥ २ ॥ उभयोमातापित्रोयन च तेषां सम्बन्धो भवति अव्यातिकमश्च । च इति चेदर्थे अव्यतिक्रमश्चेत् , यदि ते मातरं पितरं च न व्यतिक्रमे- युः। व्यतिक्रमे तु दायहानिरिति । अपर आह-'उभयोरपि दायेन तेषां व्यतिक्रमो न कर्तव्यः । अवश्य देयो दायस्तेभ्य इति ॥ २॥ पूर्ववस्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषः ॥३॥ अन्येन पाणिग्रहणेन तवती पूर्ववती । असंस्कृता विवाहसंस्कारर हिता । वर्णान्तर ब्राह्मणादेः क्षत्रियादिः । तेषु पूर्ववत्यादिषु मैथुने सति दोषो भवति । कस्थ ? तयोरेव मिथुनीभवतोः ॥ ३ ॥ नत्राऽपि दोषवान् पुत्र एव ॥ ४ ॥ तत्रेति सप्तम्यास्त्रल(१) 'इतराभ्योऽपि दृश्यन्त' इति । ताभ्यामुमा भ्यामीप पुत्र एवाऽतिशयेन दोषवान् । तत्र पूर्ववत्यामुत्पन्नौ कुण्डगोलको (२) पत्यौ जीवति कुण्डलस्यान्मृते भतरि गोलक' इति । असंस्कृतायामुत्पन्नस्य नामान्तरं नास्ति । किं तु दुष्टत्वमेव । () कुण्डलान्तर्गतो भामो नास्ति घ. ह. पुस्तकयोः । १. पा. सू. ५. ३. १४. २. म. स्मृ. ३. १७४.