पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीरक्षणम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । वर्णान्तरे तु जात्यन्तरम् । तत्र गौतमः-- (१) अनुलोमा. पुनरनन्तरैकान्तरद्वन्तरासु जातासवर्णाम्वष्ठान निषाददौयन्तपारशवाः । प्रतिलोमास्तु सूतभागधायोगवक्षनृवैदेहक चण्डाला' इति । एवकारो दुहितृनिवृत्यर्थः । तथा च वसिष्ठः- (२) 'पतितेनोत्पादितः पतितो भवत्यन्यत्र स्त्रियारूसा हि परमा मिनी वामरिक्थामुपेयादिति । (३) 'स्त्रीरत्नं दुकुलाहपीति मनुः ॥ ४ ॥ पुत्रेभ्यो दायभाग वक्ष्यन् अन्यस्य भार्यायामन्यनोत्पादितः किमु त्पादयितुः १ अहोस्वित् क्षेत्रण इति विचारे निर्णयमाह- उत्पादयितुः पुत्र इति हि ब्रामणम् ॥ ५॥ न केवल ब्राह्मणमेव । वैदिकगाथा अन्यत्रोदाहरन्तीत्याह-- अथाप्युदाहरान्ति-- इदानीमेवाह (४)जनकः स्त्रीणामीयामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्र प्रबुद्धन् । रेतोधाः पुत्रं नयति परेत्य यमसाइने । तस्माद्भायों रक्षान्त विभ्यन्तः पररेतसः । अप्रमत्ता रक्षथ तन्तुमेतं मा व क्षेत्रे परबीजानि वाप्नुः। जनयितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ६ ॥ जनयितुः पुत्रः क्षत्रिणो वेति विवादे पराजितस्य क्षेत्रिणो वचनम् एतावन्त कालमहं जनको मन्यमानः इदानीमेव स्त्रीणामीामि परपुरुषससर्ग न सहे । कदा इदानीम् ? यदा यमस्य सादने पितृलोके जनयितुः पुत्रो भवति पुत्रकृत्यं परलोकगतस्य जनयितुरेव न क्षेत्रिण इत्यत्रुवन् धर्मशाः । उक्त एवार्थः किञ्चिद्विशेषणोच्यते-रेतोष! बीजप्रदः पुत्र नयति पुत्रदत्तं पिण्डा. दिकमात्मानं नयति प्रापयति । परेत्य भृत्वा । यमसादने यमलोके । तस्मा- स्कारणात् भार्या रक्षन्ति पररेतसो बिभ्यन्तः । बिभ्यतः छान्दसो नुम् । अतो यूयमप्यप्रमत्ता अवहिता भूत्वा एत तन्तुं प्रजासन्तान रक्षथ । लोडथै १. गौ. घ.४ १६-१७ २. व ध.१३. ६. सुद्रितव.ध, कोशेषु पाठभेदो दृश्यते। ३.म स्मृ. २, २३८ ४ 'जनक' इति सम्बुध्यन्ततया पठित बौ. ध १.२. ३४-३६