पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनिनुक्तादिप्रायश्चित्तम्] उज्ज्वलोपेते द्वितीयः प्रश्नः । २२७ अभिनिनुक्ताभ्युदितकुनखिश्यावदादिधिषुदिधिषू- पतिपर्याहितपरीष्टपरिवित्त परिविनपरिवि. विदानेषु चोत्तरोत्तरस्मिन्नशुचिकरनिर्वे. षो गरीयान् गरीयान् ॥ २२ ॥ आद्यौ द्वौ गतौ । कुनखी कृष्णनखः । श्याचा दन्ता यस्य स यावदन् विवर्णदन्तः । (१)विभाषा श्यावारोकाभ्यामि' ति दनादेशः। तस्य न लोपश्चान्दसः ज्येष्ठायामनूढायां पूर्व कनीयस्था बोढा अप्रदिधिधुः । पश्चादितरस्या वोढा दिधिषपतिः । ज्येष्ठे अकृताथाने कृताधानः कनिष्ठः पर्याधाता । ज्येष्ठः पर्याहितः । ज्येष्ठे अकृतसोमयागे तसोमयागः कनिष्ठः परियष्टा । ज्येष्ठः परीष्ट. । अकृतविवाहेज्येष्ठे कनविवाहः कनिष्ठः (२)परि- वेत्तेति प्रसिद्धः। ज्येष्ठः (३)परिवित्तम(४)ज्येष्टस्य भार्यामुपयच्छमानः परिविन्न । यस्मिनगृहातमागे वा कनिष्ठो भागं गृह्णाति स ज्येष्ठः परिविन्नः। कनिष्ठः परिविविदानः । चकारा पर्याधातृप्रभृतीनां समुनयार्थः । एतेन. भिनिनुक्तादिषु यो य उत्तरस्तस्मिंस्तस्मिन्द्वादशमासादिरशुचिकर- निर्वेषो यः पूर्वमुक्त तत्र तत्र गरीयान् भवति । पूर्वत्र पूर्वत्र लधी यान् । अभिनिम्रकाभ्युदितयोरनन्तरोकं प्रायश्चित्तद्वयमपि विक ल्पन भवति ॥ २२ ॥ तच्च लिग चरित्वोडामित्येके ॥ २३ ॥ यस्मिन् कौनख्यादिके लिझे यत् प्रायश्चितमुक्तं तच्चरित्वा तत् कौनख्या- दिकं लिझमुद्धरेदित्येके मन्यन्ते । अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका १२॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदचमिश्रविरचितायामुज्ज्वलाया द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. पा.सू.५.४ ११४. २. परिवित्त इति प्रसिद्धः इति.स.ड.च पुस्तकेष्वपपाठः । ३. परिवित्ति इति ख च. पुस्तकयो. पाठः । अत्र बोवायचधर्मसूत्रव्याख्या २.१,३.द्रष्टव्या। ४. ज्येष्ठे चागृहातभागे कनिष्ठो भाग गृहाति स परिनिविदानः । परिविन्न इतरः। इत्येव पाठो ध. पुस्तके।