पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे ((प.२.)क.५. तमाह- समावृत्तं वेत् शिष्यं कृतहारमाचार्योऽभ्यागच्छेत् अतिथिधर्मेण । सम. भिमुखोऽभ्यागम्य । तस्योपसंगृह । कर्मणि षष्टी । तभुपलंगृहा । यद्यपि तस्य चण्डालादिस्पर्शः अम्भाव्यते, तथापि न बीभत्सवान उदकमुपस्पृशेत् न स्नायात् । उपसग्रहो वा धूलिधूसरौं पादौ स्पृष्ट्वा न वीभत्समान उद- कमुपस्पृशेत् ! सवस्त पुरस्कृत्य गृहप्रवेशे अग्रे कृत्या ! पूजासाधनान्यु: पस्थाप्य यथोपदेश गृहोकेन मार्गेण मधुपर्केण पूजयेत् । पूजाविधानं गृह्यो- कस्थाऽयमनुवाद आस्सनादिषु विशेष वक्तुम् ॥ ४॥ आसने शयने भक्ष्धे भोज्ये वाससि वा सन्निहिते निहीनतरवृत्तिः स्यात् ॥ ५ ॥ सन्निहित आचार्य तस्मिन्नेव गृहे अपवरकादिकं प्रविष्टे आसनादिषु निहीनतरवृत्ति. स्यात् । तरपनिदेशात् नीच आसने गुण तोऽपि निकृष्ट आ. सीत । एवं शयनाविश्वयि द्रष्टव्यम् ॥५॥ तिष्ठन् सधेन पाणिनाऽनुगृह्याऽऽचार्य(१)माचमत् ॥६॥ तिष्ठन्निति प्रह उच्यते, स्थानयोगात् । न हि साक्षात्तिष्ठन्नाचमयितुं प्रभवति । सव्येन पाणिना करकादिकमनुगृह्याऽधस्तादगृहीत्वा इतरण द्वारमवमृश्यत्यर्थसिद्धत्वादनुक्तम् । एवं कृत्वाऽऽचार्यमाचमयेत् स्वयमेव शिष्यः । एवं हि स(२) सम्मतो भवति । आचार्य प्रकृते पुनराचार्य। ग्रहणमातिथ्यादन्यत्राप्याचार्यमाचमयन्नेवमेवाऽऽचमयेदिति ॥ ६॥ अन्यं बा समुदतम् ॥ ७॥ वाशब्दः समुच्चये । अन्यमप्येवमेवाचमयेत् । स चेत् समु देतः कु. लशीलवृत्तविद्यालयोभिरुपेतो भवति ॥ ७ ॥ स्थानासनचंक्रमणस्मितेष्वनुचिकीर्षन् ॥ ८॥ व्यवहितमपि स्यादित्यपेक्ष्यते । चिकीर्षया करणं लक्ष्यते । स्था. नादिम्बाचार्यस्थ पश्चाद्भावी स्यात् । न पूर्वभाची । न युगपद्भावी ॥ ८॥ सन्निहिते सूत्रपुरीषवातकोंच्चैर्भाषाहास(३)ष्ठीवनद. न्तस्कवननिःशृङ्खणभ्रक्षेपणतालननिष्ठयानीति ॥ ९ ॥ आचामयेत् इति क. पु. २ धर्मयुत इति. ध पु. धर्मतो भवति. इति.ड.पु. ३ ठेवन, इति. क. पु. १.