पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्न । अनुगमनं च पश्चात् ॥ २७ ॥ अनुगमनं च पृष्ठतः कर्तव्यं यावदध्ययनम् । पश्चादग्रहणं लज्जा- दिना कियत्यपि पार्श्वे गतिर्मा भूदिति । सर्वशुरुषाप्रसङ्गे नियम:- ब्राह्मणस्याऽनुगमनमेव शुश्रूषेति । तथा च गौतमः-(१) अनुगमनं शुश्रूषेति ॥ २७॥ तत ऊध्र्व ब्राह्मण एकाऽने गतौ स्यात् ॥ २८ ॥ ततोऽध्ययनादूर्व समाप्तेऽध्ययने ब्राह्मण एवापतो गच्छेत् ॥ २८ ॥ इत्यापस्तम्भधर्मसूत्रकृचावलायां द्वितीय चतुर्थी कापडका ! सर्वविद्यानामप्युपनिषदामुपाकृत्याऽनध्ययनं तदहः ॥१॥ कर्मणि षष्ठी । सर्वविद्या अङ्गविद्या अप्युपनिषद उपाकृत्याध्ये तुमारभ्य सदहरनध्ययनं तस्मिन्नहन्याध्ययनं न कर्तव्यम् । उपनिषद्ग्रहणं प्राधान्य ख्यापनार्थम् । ब्राह्मगा आयाता, वसिष्ठोऽध्यायात इतिवत् ॥ १ ॥ अधीत्य चाऽविप्रक्रमणं सद्यः ॥ २ ॥ अधीत्य(२) 'वेदमधीत्य स्नास्य नित्ययसरे आचार्यलकाशाव सशो प्रिक्रमण न कर्तव्यं नाऽपगन्तव्यम् । प्रायेण मकारात्परामिकारमधीयते । तत्राप्येष एवार्थः । इकारस्तु छान्दसोऽपपाठो वा(३) ॥२॥ यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेदेवमुभयोः शिवं भवति ॥ ३ ॥ यदि कार्यवशात् गन्तुं त्वरेत तदा गुरोराचार्यस्य समीक्षायां सन्दर्शने संश्रये स्वाध्याय प्रश्नावरमधीत्य यथाकामं गच्छेत् । एवं कृते उभयोः शिघ्या. चार्ययोः शिवं भवतीति ॥ ३ ॥ समावृत्तं चेदाचार्थोऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य त. स्थोपसङ्ग्रस्य न थीभत्समान उदकमुपस्पृशेत् पुरस्कृ. त्योपस्थाप्य यथोपदेशं पूजयेत् ॥ ४॥ १. गौ, ध. ७.२. २. आप. पृ. १२. १. ३. एतदनन्तरं 'उपाकरणात् परमित्यन्ये' इति छ, पुस्तकेऽधिक पाठः ।