पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैश्वदेवबलिः उज्वलोपेते द्वितीयः प्रश्नः । उभयता परिषेचनं यथा पुरस्तात् ॥ १७ ॥ उभयत. पुरस्तादुपरिधाच पारेषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात् उक्तं गृहो(१) 'आदतेऽनुमन्यस्वेत्यादि, 'अन्वम स्थाः प्रासाचीरिति मन्त्र- सन्नाम' इति च । सामयाचार केषु पार्वणनातिदेशो न प्रवर्तत इति ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसल्लयां मन्यन्ते परिषेचन- मेव वैश्वदेवे, नाऽन्यत्तन्त्रमिति ॥ १८ ॥ एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषचनम् ॥ १८॥ यथा एण्णामाहुनीनां परिषेचनं तन्त्रम्, विभवातू एवं बलयो- ऽपि ये एकस्मिन् देशे समवेता 'उत्तरैर्ब्रह्म साइन'(४.२.४) इत्यादयस्तेषां वदन्ते परिषेचनं प्राप्त पश्चात्परिषेवन' मित्यनेन विहितं तत्सर्वान्ते सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । अलत्यस्मिन सूत्रे पूर्वत्र 'तस्य तस्ये' ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येक पृथक्पृथग्भवति तथा परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदशस्था बलयस्तेषामेव सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्त रपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृयकारिषेचनं भवति ॥१८॥ सति सूपसंसृष्टेन कार्याः ॥ १९ ॥ सति सूपे तत्ससृष्टा बलयः कार्याः । अन्ये त्वन्यैरापे व्यवनस्संसर्ग- मिच्छन्ति । तथा च बौधायन.-(२) 'काममितरेष्वायतने चिति । एष एव व्यञ्जनानां संस्कार. २३)सूत्रस्थापि-व्यञ्जनस्सुरसंचष्टेनाऽन्नेन बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥ अपरेणाग्नि सप्तमाष्टमाभ्यामुदगपवर्गम् ॥ २० ॥ अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाटमाभ्या 'धर्माय स्वाहा, अधर्माय स्वाहे' त्येताभ्यां बलिहरण कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥ उद्घानसन्निधौ नवमेन ॥ २१ ।। उदकं यत्र धीयते तदुदधानं(४) मणिकाख्यम् । तस्य सन्निधौ नवमैन १. आप गृ.२.३. २. यौ, गृ. १. ८.१. ३. सूपस्यपि । व्यञ्जनैरपूपेन व ससृष्टेन बलय इति, क. छ. पु. ४. अस्य विधिय बास्तुनिर्माणवियों ( अ.प गृ १७.९ ) द्रष्टव्यः ।