पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्धधर्मसूत्रे चर्य मैथुनवर्जनम् । (१)क्षारलवणवर्जन च भवति । उपयोक्तुरेव व्रतम् , अध्ययनाक्षात् । अम्ये तु पन्या अपाच्छन्ति । उपयोगः प्रथमयोग तत्र च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥ उत्तमस्यैकरात्रमुपवासः ॥ १४ ।। उत्तमस्य 'उत्तमेन बैहायस (२.४.८.) मिति वक्ष्यमाणस्य(३) 'ये भूताः प्रचरन्ती'त्यस्य एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥ बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽचो. क्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥ बलीना मध्ये तस्यतस्य वलेदेशे सस्कारः कर्तव्यः । कः पुनरसौ ? हस्तेन परिमार्जनमवोक्षणं च । तं कृत्वा बलि निवपति । न्युप्य पश्चात् परिषेचन कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाहणं मध्ये गन्धमाल्यादिवाना. थमित्याहुः । तस्यतस्येति वचनं सत्यपि सम्भवे सकदेव परिमार्ज. नमोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति ॥ १५ ॥ औपासने पचने वा षभिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् ॥ १६ ॥ यत्र पच्यते स पचनोऽग्निः । औपालनवतामोपासने, धिधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु-तुल्यविकल्प मन्यन्ते । षड्भिराथैः (३) अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय भौमाय स्वाहा, ध्वक्षितये स्वाहा, अच्युतक्षिनये स्वाहेत्येतैः । पतेहि मन्त्रपाठे पठिताः प्राग्विवाहमन्त्रेभ्यः विशिष्टनियमलापेक्षग्रहणत्वात्तै- स्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्नति 'अग्नये स्विष्ट कले स्वाहेति औषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तमहणं दादिनिवृत्यर्थम् ॥ १६ ॥ १. क्षारपदार्थः आप. ध २. १५. १४ सूत्रे द्रष्टव्यः । भूताः प्रचरीन्त दिवा नक्त बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलि पुटिकामो हरााम मयि पुष्टिं पुष्टिपतिर्दधातु ॥ इति मन्त्रः । ( तै. आ १०.६७.) ३. आप मन्त्रप्रश्ने, १, १.