पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्वदेवम् ] उज्ज्वलोपेते द्वितीया प्रश्नः। थाच मतुः- (१) न वासोभिस्सहाऽजलं नाऽविज्ञाते जलाशये।' इति ॥ ७ ॥ अपि वाऽष्टमीष्वेव पर्षसु वा वपरेन् ॥ ८ ॥ यदि वाऽटमीष्वेव वपरेन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । 'वपरेन्निति अन्तर्भावितण्यर्थः । वापयेरनित्यर्थः । तथा च 'लोमनखबापन मिति पूर्वत्र णिप्रयुक्तः ॥८॥ परोक्षमन्नं संस्कृतमन्नावधिश्रित्याऽद्भिः प्रोक्षेत्त. देवपवित्रमित्याचक्षते ॥९॥ यदि शुदा परोक्षमन्नं सस्कुर्युः आयरनधिष्ठिताः । तदा तत्परोक्षमन्न सस्कृत स्वयमग्नावधिश्रयेव । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्ने देवपवित्र मित्याचक्षते । देवानामपि तत्पवित्र किं पुनर्मनुष्याणामिति ॥९॥ सिद्धेने तिष्टन् भूतमिति स्वामिने प्रब्रूयात् ॥ १० ॥ सिद्ध पक्केऽन्ने तिष्ठन् पाचकोऽधिष्ठाता का भूतमिति प्रब्रूयात् । कस्मै य. स्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥१०॥ तत्सुभूतं विराडन्नं तन्मा चाथीति प्रतिवचनः ॥ ११ ॥ तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः। तदनं सुभूत सुनिष्पन्नम् । विराट् विराजः साधनम् । अन्नमशनम्। तव मा क्षाथि क्षीणं मा भू. दित्यर्थः ॥ १९॥ गृहमेधिनो यदशनीयं तस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः ॥ १९॥ गृहमेधिनो यदशनीय पक्कमकं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२॥ तेषां मन्त्राणामुपयोगे बादशाहमधश्शरया ब्रह्मचर्य क्षारलवणवर्जनं च ॥ १३ ॥ तेषां होमानांबलीनां च ये मन्त्रास्तेषामुपयोये । उपयोगो नियम. पूर्वक विद्यामहणम्(२) । तत्र द्वादशाहमधश्शय्या स्थण्डिल शायित्वम् । ब्रह्म १.म. स्मृ.४.१२९ २. तथा च बौधायन -'तेषां प्रहणे द्वादशरात्र' मित्यादि इत्याधिक ख. पुस्तके।