पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ बितीयः पटलः॥ आर्या : प्रयत्ता वैश्वदेवेऽनसंस्कारः स्युः ॥ १ ॥ आर्यावर्णिकाः । 'आयोधिष्ठिता था शूद्रा (२.३,४) इत्युत्तरत्र दर्श- इत् ! प्रयत्ताः स्नानादिना शुद्धाः। वैश्वदेवे गृहमेधिनोभोजनार्थे पाके । हमेधिनो यदशनीयस्थे(३-१२)ति दर्शनात । अन्नसंस्कार स्युः । अनं भक्ष्यभोज्यपेयादिकं तत् सस्कुर्युः । न स्वयं, नाऽपि स्त्रियः॥१॥ भाषां कासं ववधुमित्यभिमुखोऽनं वर्जयेत् ॥२॥ भाषा शब्दोचारणम् । कासः कण्ठे धुरुधुराशब्दः । क्षवधुः क्षुनम् । पतन्त्रितयमन्नाभिमुखो न कुर्यात् ! 'संस्कारः स्युरिति बहुवचने प्र. कृते 'वर्जये दिन्यकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥ केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥३॥ के शादीनात्मीयानन्यहीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेद स्नानम् । किं सहि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि तम् । इद तु तत्रोक्तं वैकल्पिक शकदाधुपस्पर्शनं मा भूदिति ॥ ३ ॥ आर्याधिष्ठिता का शुद्रास्संकर्तारः स्युः ॥ ४ ॥ वैवर्णिकैरधिष्ठिता वा शूद्रास्सस्कार स्युः । प्रकरणादनस्येति गम्यते॥४॥ तेषां स एबाचमनकल्पः ॥५॥ तेषां शूद्राणामन्नसंस्कार अधिकृतानां स एवाऽऽचमनकल्यो चेदितव्यः, यस्यानं पचन्ति । यदि ब्राह्मणभ्य, हृदयङ्गमाभिरद्भिः। यदि क्षत्रि. कण्ठमाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियापस्पर्शन च भवति ॥ ५॥ अधिकमहरहः केशश्मश्रुलोमनखबापनम् ॥ ६ ॥ शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इद्देषामधिकमार्येभ्यः॥६॥ उदकोपस्पर्शनं च सहवाससा ॥ ७॥ सहैव बाससा स्नानं कुर्युः । आर्याणां तु परिहितं वालो निधाय को पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शुद्राणामपि पाकादन्यत्र । त. यस्या