पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधसूचे [(प.१.)क.१. मन्यन्ते-ऋतावेव साभिपतेचाऽन्यत्रेति । तेषामृतावनियमादगमनेऽपि दोषामावाहोषस्मरणमनुपपन्नं स्यात् । सर्वथा विधिर्न भवति । राग प्राप्तत्वात्सन्निपातस्य ॥ १७ ॥ अन्तरालेऽपि दार एव ॥ १८ ॥ अन्तराल मध्यम् । ऋत्योरन्तराले मध्येपि सन्निपातः स्थात् दार एव सकामे सति । यद्यात्मनो जितेन्द्रियतया न तादृशं पारवश्यम् , थाऽपि भार्यायामिच्छन्त्यां तद्रक्षणार्थ मवश्यं सनिपनेदिति । वक्ष्यति व (१) अप्रमत्ता रक्षथ तन्तुमेत' (२.१३.६.) मित्यादि । अनुव्रतमित्य. नुवृत्तेः प्रतिषिद्धेषु दिनेषु न भवति ॥ १८ ॥ ब्राह्मणवचनाच संवेशनम् ॥ १९ ॥ यदिदमनन्तरोक्तं सवेशन तत्र ब्राह्मणवचनं प्रमाण (२) काममावि- जनितोरलम्भवामेति ॥ १९ ॥ श्रीवाससैव सन्निपातस्यात् ॥ २० ॥ एधकारो भिन्नक्रमः । स्न्युपगार्थ वासः स्त्रीवासः । तेन सन्निपात एव स्यात् । न तेन सुप्रक्षालिनेनाऽपि ब्रह्मयज्ञादि कर्त्तव्यमिति यावत् ॥२०॥ यावत्सन्निपातं चैव सह शाय्या ॥ २१ ॥ यावत्सनिपातमेव दम्पत्योस्सह शयनम् ॥ २१॥ ततो नाना ॥ २२ ॥ ततः पृथक्शीयाताम् ॥ २२ ॥ उदकोपस्पर्शनम् ॥ २३ ॥ ततो द्वयोरप्युदकोपस्पर्शन स्नानं कर्तव्यम् । इदमृतुकाले ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायां श्रीहरदत्तविरचितायां द्वितीयप्रश्ने प्रथमा कपिडका ॥१॥ भो १. बौ. ध २.२. ३६. द्रष्टव्यम् । १. ते सं. २. ५ १. यावत्प्रसूति सभोग प्राप्नुयामेत्यर्थः । अयं स्त्रीभिरिन्द्रातू प्रार्थितो वर ।