पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः] उज्ज्वलोपते दितीयः प्रश्नः। अपि था लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १॥ अपि वा रेतलो रजसश्च ये लेपास्तानद्भिर्मदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्(१) । रुचितो व्यवस्था । याव. ताप्रयतो मन्यते ॥१॥ सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥ २ ॥ सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णा ये स्वधर्मा वर्णप्रयुक्ता आश्रम प्रयुक्ता उभयमयुक्ता वा तेषासवैगुण्येनाऽऽन्तादनुष्ठाने सति परमुत्कृष्ट अपरिमितमक्षयं सुखं स्वर्गास्थं भवति ॥२॥ न केवलमेतावत् । किं तर्हि ? ततः परिवृत्तौ कर्मफल शेषेण जातिं रूपं वर्ण बलं मेधा प्रज्ञा प्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभपोर्लोकयोः सुख एव वर्तते ॥ ३॥ ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जाति ब्राह्मणादिकां विशिष्टे वाकुले जन्म। रूपं कान्तिम् वर्ण हेमादितुल्यम्। बल प्रतिपक्षनिग्रहक्षमम् । मेधा(२) अन्धधारणशक्तिम् । प्रश्नांअर्थधारणशक्ति । द्रव्याणि स्वर्णादीनि धर्मानुष्ठानम् इतिकरणाद्यच्चाऽन्यदेवं युक्त तत्सर्व प्रतिपद्यते । सर्वत्र धर्मशेषो हेतु' । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वाधर्मानुष्ठानं प्रतिपद्यत इत्युक्तम् । यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोलोकयोरिह चाऽमुमिश्च सुख एवं वर्तते न जातु चित् दुःख वर्तते । सुखानुबन्धेनैवाऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥ शरीरोत्पत्तिसंस्कार(३)अध्यावश्यका इति दर्शयितुं दृष्टान्तमाह--- यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेष फलपरिवृद्धिरेवम् ॥ ४॥ चलोपोऽत्र द्रष्टव्यः । यथा चौषधीना ब्रीह्यादीनां वनस्पतीनां चा. १ इदमनृतुकाले इत्यधिकं ख.व पुस्तकयो: 'रुचितः इत्यादिश्रन्थोऽपि नास्ति तत्र। २ मेधा ग्रन्थग्रहणशकिम् , प्रज्ञा अर्थग्रहणशक्तिम् इति क. च. पु । ३ अप्यवश्यापेक्ष्या. इति. च पु