पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(५.१.)क.१. शिवा उपविशन्ति ॥ १२॥ यत्र क चाऽनिमुपसमाधास्थन् स्यात्तत्र प्राचीरुदी. चीश्च तिरस्तिस्रो रेखा लिखित्वाऽद्धिरवोक्ष्या- निमुपसमिन्ध्यात् ॥ १३ ॥ होमप्रसङ्गादिदमुच्यते-यन्त्र क्व च गासामयाचारिक वा कर्म णि गृहेऽरण्ये वाऽग्निमुपसमाधास्यन् प्रतिष्ठापयिष्यन् स्यात्तत्र पूर्व प्राचीः प्रा मनास्तिसो रेखा बिलिखेत् । तत उदीची. उदगमास्तिस्त्रः। एव तिस्रो लेखा लि- खित्वाऽद्भिवोक्षेत् । अवोक्याऽग्नि श्रोत्रियागारादाहृत्य प्रतिष्ठाप्योपसमिन्ध्यादु- पसमिन्धीत काष्टैरभिज्वलयेत् । तत्र(१) 'पुरस्तादुदग्वोपक्रमा, तथाप- वर्ग' इति परिभाषितम् । उपदेशकमा प्राच्य पूर्व लेखा लेखनीया ततश्चोदीच्यः(२)। (३)प्राची: पूर्वमुद संस्थं दक्षिणारम्भमालिखेत् । अथोदीची पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥ (४)अन्ये तु प्राचीरुद्गारम्भं दक्षिणान्तमालिखन्ति ॥ १३ ॥ उत्सिच्येतदुदकमुत्तरेण पूर्वेण चाऽन्यदुपदध्यात् ॥१४॥ एतदवोक्षणशेषोदकमग्नरुत्तरतः पूर्वतो वा उत्सिञ्चेत् । उत्सिच्याऽस्य दुदकं पानस्थमुपदध्यात्तत्रैव ॥ १४ ॥ नित्यमुदधानान्यद्भिररिक्तानि स्युगृहमेधिनोबतम् ॥१५॥ गृहे यावन्त्युदधानान्युदपात्राणि घटकरकादीनि तानि सदाऽद्भिरिक्तानि स्युः । एतदपि गृहमेधिनोबेतम् । पुनः 'गृहमेधिनोरिति वचनमस्मिन् कर्मणि स्वयं कर्तृत्वमेव यथा स्यात् प्रयोजककर्तृत्व मा भूदिति । अन्य आह-पुन 'गृहमेधिनो रिति वचनात् पूर्वसूत्रं ब्रह्मचारिवि षयेऽपि 'साविया समित्सहस्रमादध्या' (१.२६.१.)दित्यादौ भवति । पाके तु स्त्रिया न भवति । 'उपसमाधास्यनिति लिङ्गस्य विवक्षित. स्वाद । आर्याः प्रयत्ता' (२.३.१.) इत्यादी भवतीति ॥ १५ ॥ १. आप, गृ. १.५, ६. २. 'एकमेवेदं कर्मलेखाकरणं नाम स्थण्डिलसंस्काररूपम् । ततश्च' इत्याधिक धाड पु. ३. प्राची पूर्व दक्षिणान्तमुदगारभ्यमालिखेत् । इति ख. च, पु. ४. अन्ये तु प्राच/दक्षिणारम्भमालिखन्ति इति च. पु.।