पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः] उज्ज्वलोपेते द्वितीयः प्रश्नः । १७९ मेव च गृह्ये (१)एतदहर्विजानीयाद्यदहर्भायर्यामावहत' इत्युक्तम् । एतस्मिन् पाणिग्रहणेऽहनि यदेनयोर्दम्पत्योः प्रिय तत् भुञ्जीयाताम् । न तु 'ना5sस्मार्थ- माभिरूपमन्नं पाचये (२.७-४)दिति निषेधस्याऽय विषय इति । प्रतिसंव. त्सरं चैतत्कर्तव्यम् । यथा चैत्रे मासि स्वातौ कृतविधाहस्याऽपरस्मिन्नपि संवत्सरे तस्मिन्मासे स्वातावेव कार्यम् । एवं हि तदेवाऽहरिति भवति । प्रतिमासं तु नक्षत्रागमेऽपि चैत्रादिभेदान्न तदेवेति प्रतिपत्तिः । तस्मात प्रतिसंवत्सरमिदं विवाहनक्षत्रे कर्तव्यम् । (२)यथा राज्ञामभिषेकनक्षत्र मेवं हि गृहमेधिनोर्षिवाहनक्षत्रमिति ॥ ७॥ अधश्च शीयाताम् ॥ ८ ॥ एतस्मिनहनि स्थण्डिल शायिनौ स्याताम् ॥ ८॥ मैथुनवर्जनं च ॥ ९ ॥ (३)मैथुनवर्जन चैतस्मिन्नहनि कर्तव्यम् ॥ २॥ श्वो भूते स्थालीपाकः ॥ १० ॥ स्थालीपाकश्च कर्तव्योऽपरेधुः ॥ १० ॥ तस्योपचार: पार्वणेन व्याख्यातः॥ ११ ॥ तस्य स्थालीपाकस्योपचारः प्रयोगप्रकारः पार्वणेन व्याख्यातः । एतदेव ज्ञापयति-न सामयाचारिकेषु पार्वणातिदेश प्रवर्तत इति । केचिनु समेतपर्वविषयं मन्यन्ते । तेषामुक्तो दोषः । 'पार्वणन व्या ख्यात' इति चाऽनुपपन्नम् । न हि स एव तेन व्याख्यातो भवति । वो भूते स्थालीपाक' इति च व्यर्थम् । (४) उपोषिताभ्यां पर्वसु कार्य' इति पूर्वमेवोकत्वात् । 'एतदहर्विजानीया'दिति चास्य प्रयोजनं तत्पक्ष चिन्त्यम(५) ॥ ११ ॥ नित्यं लोक उपदिशन्ति ॥ १२ ॥ लोके शिष्टाचारसिद्धमेतत्कर्म नित्य प्रतिसंवत्सरं कर्तव्यमिति शिष्टा उपदिशन्ति । अपर आह-वक्ष्यमाणं कर्म शिष्टाचारसिद्धं नित्यं सार्वत्रिक इति १. आप गृ८.७ २. यथा इत्यादिनन्थ. घ. तु पुस्तकयोनास्ति । ३. 'एतस्मिन्नहनि तन्न कर्तव्यम्' इति छ. पु ४ आप, गृ. ७.१७. ५. सूत्रस्वारस्यं तु पर्वविषयस्व एव पश्यामः ।