पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नातकव्रतानि उज्ज्वलोपते प्रथमः प्रश्नः । नेन्द्रधनुरिति परस्मै प्रयात् ॥१८॥ इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्य वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये (१) दर्शनात् ॥ १८ ॥ न पततः सञ्चक्षीत ॥ १९ ॥ पतत. पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षात न गणयेत्--इयन्त एत इति । अपर आह--'पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्च- क्षात-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥ उद्यन्तमस्तंबस्तं चाऽऽदित्यदर्शने वर्जयेत ॥२०॥ उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् । (२)मनुस्तु- नक्षेतोद्यन्तमादित्यं नाऽस्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नमसो गतम् ॥' इति ॥ २० ॥ दिवाऽऽदित्यः सत्वानि गोपायति नक्तं चन्द्रमाः | तस्माद्मावास्थायां निशायां स्वाधीय आत्मनो गुप्तिमि- च्छेत् प्रायत्यब्रह्मचर्यकाले चर्पया च ॥ २१ ॥ दिवा अहनि । आदित्य. सत्वानि गोपायति प्राणिनो रक्षति, आलोकदा- नेन । नत रात्री चन्द्रमाः । तस्मादमावास्यायां निशायां रात्रौ स्वाधीयः। वका. रश्चान्दसः । अन्तिकबाढयोर्नेदसाधौ । बाढतरं भृशतरं आत्मनो गुप्ति रक्षणमिच्छेत् । केन प्रकारेण ? प्रायत्यब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदानुरूपः पाठः । अर्धायमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यं नित्यप्रायत्यादधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृतया चर्यया देवार्चनजपादिकया च ॥२१॥ कस्मात्पुनरस्यां रात्री चन्द्रमा न गोपायतीत्याह- सह खेतां रात्रि सूर्याचन्द्रमसो वसतः ॥ २३ ॥ एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रि सूर्याचन्द्रमसौ सह वसत.। न च सूर्येण सह वसतश्चन्द्रमस:प्रकाशोऽस्ति ॥ २२ ॥ न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥ कुसृति कुमार्गः । तया प्राम न प्रक्शेित् ॥ २३॥ १. गौ, ६. ९. २२.