पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [ (प.११.)क.३१. यदि प्रविशे 'नमो रुद्राय बास्तोष्पत्तय' इत्येताचं जपेदन्यां वा रौद्रीम् ॥ २३ ॥ यदि गत्यन्तराभावात् प्रविशेत(१) 'नमो रुद्राये' त्यादिकासचं जपेत् । अ. न्यौ वा रौद्रीम(२) 'इमां रुद्राय तवस'इद्यादिकाम् । अत्र वाजसनेयगृह्ये- (३) वनं प्रवेक्ष्यन्ननुमन्मयते 'नमो रुद्राय बनलहे स्वस्ति मा सम्पारये" ति। पत्यानमारोश्यन्मनुमन्त्रयते 'नमो रुद्राय पथिषदे स्वास्त मा स म्पारयेति । अपः प्रवेक्ष्यन्ननुमन्त्रयते-'नमो रुद्रायाऽसुषदे स्वस्ति मा सम्पारयति । तस्माद्यकिचन कर्म कुर्वन् स्यात् सर्व 'नमो रुद्राये' त्येव कुर्यात 'सवा ह्येष रुद्र' इति श्रुतेरिति । भारद्वाजगृोऽप्यस्मि. विषये कियानेद भेदः ॥ २४ ॥ नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥ अब्राह्मणः शुद्भः । (४)'न शूद्रायोच्छिधमनुच्छिष्टं वा दद्यादिति वा सिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे'दित्यनाश्रितविषयम् ॥२५॥ यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रपच्छेत् ॥२६॥ इदमाश्रितविषयम् । दन्तानखेन स्कुपवा विलिख्य तन्मलं तस्मिन्नु. च्छिष्टेऽवधाय प्रयच्छेत् । 'स्कुप्त्वे ति स्कुस्माते स्वाप्रत्यये छान्दसंभ- कारस्य चर्वम् । स्कुनोतर्वा पकार उपजनः ॥ २६ ॥ क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥ क्रोधादयो भूतदाहीया अध्यात्मपटले २२.५) ब्याख्याताः। तद्वचनं योगि विषयामित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्यर्थमिदं वचनम् । इदमेव तीभयार्थमस्तुयोग्यर्थमयोग्यर्थं च । एवं सिद्धे तवचनं को. धादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगलि. द्धिर्न भवति । न पुनः स्नातकवतलोपमायश्चितमिति ॥ २७ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकविंशी कण्डिका ॥ ३१ ॥ १. ब्रा ३.७ १ नमो रुद्राय बास्तोपतये । आयने विद्रवणे । उचायने यत्प. रायणे । आवर्तने निवर्तने । यो गोपायति त हुवे ॥ इति समप्रा ऋक् ॥ २. 'इमा रुवाय तवसे कपर्दिने क्षयद्वीराय' इतिरुद्राध्यायगता (तै०सं०४ ५.१०) ३ पार. ग.३.१५.११. ४.व.ध.१८१४.