पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.११.) क.३१. या व गौत्सेन समुज्ते तामपि न ब्रूयादनिमित्ते इयं ने गौर्वत्ले. न पायत इति । 'अनिमित्त इति वचनात्(१) 'यस्य हविषे वत्सा अ. पाकता येयुरित्यादिके निमित्ते सति वक्तु स्ति दोषः ॥ १० ॥ नाऽधेनुमधेनुरिति अयात् । धेनुभव्येत्येव यात् ॥ ११ ॥ या च गौरधेनुः पयस्विनी भवति तामध्यधेनुरिति न ब्रूयात् ॥११॥ किं तहिं धेनुभव्येन्येव ब्रूयात्-भविष्यन्ती धेनुर्धेनुभव्या । 'धेनोभव्यायां (मुम् वक्तव्य) इति मुम् न भवति । व्यग्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे चति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥ (२) न भद्रं भगमिति ब्रूयात् ॥ १३ ॥ यत् भद्रं तत् भद्रमिति न ब्रूयात् ।। १३ ॥ पुण्यं प्रशास्तमित्येव ब्रूयात् ॥ १४ ॥ पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम्। छान्दसो दीर्धः ॥ १४॥ (३) वत्सतन्ती च नोपरि गच्छेत् ।। १५ ॥ वत्सानां वन्धरज्जुर्वत्सतन्ती । तस्या उपरि न गच्छेत् तान लक्षयेत् । व. त्सग्रहणं गोजातरुपलक्षणम् ॥१५॥ प्रेडावन्तरेण च नाऽतीयात् ॥॥१६॥ प्रेढो डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । तावन्तरेण नाऽतीयात्-त योर्मध्ये न गच्छेत् ॥ १६ ॥ नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ मे सपन इति यात् द्विषन्त भ्रातृव्यं जनयेत् ॥ १७ ॥ असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदास। किं कारणाम् ? यद्यसौ मे सपत्न इति ब्रूयात् , द्विषन्त. क्रियाशब्दोऽयम , विद्विषाणं भ्रातृव्य सपत्नं जनयेत् 'व्यन सपने' इति भ्रातृशब्दे व्यन् प्रत्ययः । एवं युक्त स मन्यत-नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्र. तीकारार्थ यतमानसपत्न एव जायते इति ॥१७॥ १ आप, श्री. ६.१.२३, २, म स्मृ. ४. १३९५ ३ म. स्मृ. ४ ३८,