पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(१.१०)क. २८० विशेषः । अनन्तरोक्तस्य वैकल्पिकस्य निवृत्यर्थ वचनम् ॥ १५ ॥ मिथ्यैतदिति हारीतः ॥ १६ ॥ हारीतस्त्वृषिर्मन्यते एतदनन्तरोक्तं मरणान्तिकप्रायश्चित्तं मिथ्या न कर्तव्यमिति ॥ १६॥ कुत इत्यत आह--- यो यात्मानं परं बाऽभिमन्यतेऽभिशस्त एव स भवति ॥ १७ ॥ हिशब्दो हेतौ । यस्मात् य आत्मन परं वाऽभिमन्यते मारयति सोऽभि- शस्त एव भवति ब्रह्मदेव भवति । (१)न च पतनीयापनोदनं चिकीर्षु रन्यत् पत्तनीयं कर्तुमर्हतीति । हेत्वभिधानादभिशस्तवचनाचाऽन्ये बामपि मरणान्तिकानां ब्राह्मणाविषये निवृत्तिः ॥ १७॥ किं तर्हि तस्य प्रायश्चित्तमिति ? आह-- एतेनैव विधिनोत्तमादुज्छासाचरेन्नाऽस्याऽस्मिल्लोके प्रत्यापत्तिर्विद्यते कल्पषं तु निईण्यते ॥ १८ ॥ 'अधोनाभ्युपरिजान्वि' (२८.११.) त्यादि यदनन्तरोक्तमेतेनैव विधिना । शिष्ट गतम् ॥१८॥ दारव्धतिक्रमी खराजिनं बहिर्लोम परिधाय 'दारव्यति. क्रमिणे भिक्षा मिति सप्ताऽगाराणि चरेत। सा वृत्तिः षण्मासान् ।। १९॥ (२) यस्तु अन्तरेणेव निमित्तं कौमारान् दारान् परित्यजति सदा- रख्यतिक्रमी । खरस्य, गर्दभस्याऽजिन वहिलोम परिधाय वसित्वा दारव्यति- ऋमिणे भिक्षा दत्तेति सप्तागाराणि भिक्षा चरेत् । (३)कीमारदारपरित्यागिने भिक्षा दत्तेति वासिष्ठे । (४)सा वृत्तिः षण्मासान् । तत. सिद्धिः॥९॥ १ न च महापातकस्य ब्रह्महत्या प्रायश्चित्त भवितुमर्हतीति, क. पुस्तके. २. धर्मप्रजादिकमन्तरेण कौमारान् दारान्' इति क ख. पु. ३ वध, कौमारदारव्यतिक्रामिणे. इति, ख. पु. कौमारदारपरित्यागिने इति, क. पु. ४ षण्मासादूर्घ शुद्ध. इति. ग. पु. 'सा वृत्तिरित्यादि पृथक्सूत्रं च ॥