पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रूणहत्याप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । स्त्रियास्तु भर्तुन्यतिक्रमे कृच्छद्वादशरात्रा भ्यासस्तावन्तं कालम् ॥ २० ॥ भर्तुव्यतिकम इति छान्दसो रेफलोए: । व्यतिक्रमः पारत्याग । या तु स्त्री मारं परित्यजत्यन्तरेण निमित्तं, तस्यास्तावन्त कालं षषमासान् कृच्छ्रवादशरात्राभ्यासः प्रायश्चित्तम् ॥ २०॥ अथ भ्रूणहा वाजिनं खराजिनं वा बहिर्लोम परि- धाय पुरुषशिरः प्रतीपानार्थमादाय ॥२१॥ इत्यापस्तम्बधर्मसूत्रवृत्ती प्रधमप्रश्नेऽष्टाविंशी कण्डिका ॥२८॥ खटाङ्गं दण्डाथै कर्मनामधेयं प्रब्रुवाणश्चक्रम्घेत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्ति प्रतिलभ्य शून्या. गारं वृक्षमूलं वाऽभ्युपाश्रयेन हिम आर्यैः सह सम्प्रयो- गो विद्यते । एतेनैव विधिनोत्तमादुच्छ्वासाचरेत् । नाऽस्यास्मिल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निह. ण्यते॥ १॥ षडङ्गस्य वेदस्थाध्यता, तदर्थविद , प्रयोगशास्त्रस्य सव्याख्यस्या थैवित् कर्मणामनुष्ठाताऽनुष्टापयिता च ब्राह्मणो भ्रूणः । तथा च पौ. धायन:-(१) वेदानां किञ्चिदधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रो. त्रियः । अाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः। सूत्रप्रवचनाध्यायी भ्रूण' इति। तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाजिनं वहिलोम परिधाय पुरुषस्य यस्यकस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिर्धात्वर्थानुवादः (२) उपस. गैस्य यज्यमनुष्ये बहुल'मिति बाहुलको दीर्घः । पानमेव प्रतापानम् । पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव ! खटाङ्ग दण्डाथै, खटवाया अङ्गं खट्वाङ्गमीषादि तहण्डकृत्ये आदाय । 'भ्रणहाऽस्मीत्येवं कर्मनिव न्धनमात्मनो नामधेर्य अब्रुवाणश्चक्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्ध स्य खटाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रणस्ने भिक्षा द. १ बौधा. गृ.१.११. २. पा.सू. ६.३ १२२.