पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५७ अधर्माहतान् भोगाननुज्ञाय न वर्ष चाऽधर्मश्चेत्यभि व्याहृत्वाऽधो नाभ्युपरिजान्याच्छाद्य त्रिषद णमुदकमुपस्पृशन्नक्षीराक्षारलवणं भुजा. नो द्वादश वर्षाणि नागार प्रविशेत् ॥ ११ ॥ ब्राह्मणस्वहरणम्, (१)चण्डालान्त्यत्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यानतो विषो ज्ञानात्सास्य तु गच्छति ॥ इत्येवमादिकमुदाहरणम्। ये अधर्माहता भोगास्ताननुशाय परि- स्यज्य 'नवयं चाऽधर्मश्चेति !षं ब्रूयात् । तस्यार्थः वयं चा सह न वर्तामह इति । अघो नाभीत्यादि (२४.११.)गतम् । नानाऽर्धशाणीपक्षो भिक्षाचर्य वा ॥ १॥ ततस्सिद्धिः॥१२॥ एतस्य द्वादशवार्षिकस्याऽन्ते सिद्धिः शुद्धिर्भवति ॥ १२ ॥ अथ सम्प्रयोगस्यादाथैः ॥ १३ ॥ प्रायश्चित्तोपदेशात सिध्युपदेशाच्च सिद्धे पुनर्वचनं 'शा. नात्साम्य तु गच्छती'त्यस्याऽपधादार्थम् ॥ १३ ॥ एतदेवाऽन्येषामपि पतनीयानाम् ॥ १४ ॥ उक्तव्यतिरिक्तानि यानि पतनीयानि पूर्वमुक्कानि तेषु यत्राहित्य प्रायश्चित्तं (२)नोक्तं तेषामप्येतदनन्तरोक्तमेव प्रायश्चित्तं वेदितव्यम् । उक्तविषये विकल्प इत्यल्ये । तत्र ज्ञानाशानकृतो विकल्पः ॥ १४ ॥ गुरुतल्पगामी तु सुषिरां सूमि प्रविश्योभयत आदीप्याऽभिदहेदात्मानम् ॥१५॥ यस्तु गुरुतल्पगामी सोऽन्तःप्रवेशयोग्यां सुषिरी समि कृत्वा प्रविशेतू प्रविश्योभयत. पाययो(३)वह्निमादीपयेत् । आदीप्याऽऽत्मानमभिद्हेत् । “ज्वलितां या सूमि परिग्वज्य समाप्नुया ( २५, २.)" दित्यत्रैव कियानपि १.म.स्मृ.११ १७६. २. अनुक्त. इति. क. ख, पु. ३. वहिमिति मास्ति क. छ..