पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.८)क.२३ विषयाचे दोषनिहरणकर्मक्षयाववश्यं भवतः, तत श्दमयलका- यत्वाद् दोषनिहरणस्य नित्यानुषाद रूपमनर्थकम्, निहत्येति, न, प्रवृत्तकांक्षिप्तत्वाद दोषाणाम्। द्विविधानि ह्यनेकजन्मान्तरकृतानि कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च । यत्तु प्रवृत्त कर्म, तेनाक्षि सा दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा- नुपपत्तेः । न हि रागद्वेषादिशून्ये सुखदुःख प्रवृत्तिलब्धिः कदाचित कस्यचिदिह दृश्यते । तस्मात् फलदानाय प्रवृतेन कर्मणाशिता दोषाः प्रसङ्गेन प्राप्तबला यलतो निहर्तव्या । प्रवृत्याधिक्यहेतुत्वप्रसङ्गात् । अत एवेदमुक्तम्-दोषाणां तु निर्घातो योगमूले इह जीवित इति । मन्द मध्यमोत्तमापेक्षत्वाच्च । ब्रह्मविदामपि न सर्वेषां समा बह्मप्रतिपत्तिः, विवेकातिशयदर्शनात कस्याचित् । 'एष ब्रह्मविदां वरिष्ठ इति च श्रतः सम्यग्दर्शनसम्पन्न' इति च स्मृतः। मन्दमध्यमब्रह्मविदपेक्षया त्याग वैराग्यन्द्रियजयविधेरर्थवत्त्वम् . उत्तम ब्रह्मविदां त्वमाप्तमेतत् समि- त्यनुवादमात्रम् । (१) रसोऽप्यस्य परं दृष्ट्वा निवर्तते, इति वचनात् गुणा तीतलक्षणवक्षनेभ्यश्च । प्रवृत्तकाक्षिप्तवशेषात् तजानतचेष्टाभ्यश्च भ. चति विदुषोऽपि देहान्तरोत्पत्तिरिति चेद-मुक्तेषुवत् प्रवृत्तकाक्षिप्त- त्वाद् विद्वदोषचेष्टानां प्रवृत्त कर्मविभागनवोपक्षीणशस्तित्वात् प्रयोजना ताराभावाच्च न जन्मान्तरारम्भकायमुपपद्यते । यद्यप्रवृत्तं कर्म, तत स्त्यधावस्थमेव ब्रह्मविद्याहुताशनदग्घयोजशक्तित्वाशाल जन्मान्तरार. म्भाय, 'क्षीयन्ते चाऽस्य कमाणि'(२) 'शानाग्निः सर्वकर्माणि'इत्यादिश्रु. तिस्मृतिभ्यः । अतः सिद्धा पण्डितस्य दोषनिहरणात क्षमप्राति ॥११॥ उज्चला। दोषाणा वक्ष्यमाणानां क्रोधादीनां नितिः निर्मूलनम् । इह जीविते योगमूलः योगा वक्ष्यमाणा अक्रोधादयः तन्मूलकः । अतश्च तान् भूतदा- हीयान् भूतानि दहत क्रोधादीन्दोषान् निहत्य क्षेमे गच्छति आत्मत्राणद्वारेण । पण्डितो(३)लब्धज्ञानः आत्मसाक्षात्कारी । क्षेम अभय मोक्षम्(8)अभय वै जनक प्राप्तोऽसीति बृहदारण्यकम् ॥ समाता श्लोकाः॥३॥ अथ भूतदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ ४ ॥ भूतानां दाहो भूतदाहः तस्मै हिताः मृतदाहीयाः तस्मै हितमिति छ १. श्रीभ गीता० २. ५९. २. श्रीभगव. ४.३७.