पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामलामयोगाः ] बज्वलोपेत प्रथम प्रश्नः । क्रोधो हर्षों रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अना- स्म्धमयोगस्तेषां योगमूलो निर्धातः ॥ १३ ॥ ५ ॥ विवरणम् । तत्र कोधस्ताडनाक्रोशनादिहेतुरन्तःकरणविक्षोभो गावस्वदक- म्पनादिलिङ्ग । हर्षस्ताविपरीतोऽभीष्टलाभजनितो बापरोमाञ्चनादि. लिङ्गः । रोषोऽनिष्टविषयो मानसो दिक्रियाविशेषः । लोम परद्रव्येसा, स्वद्रव्याविनियोगस्तीर्थे । मोह कार्याकार्याविवेकिता। दम्भ आत्मनो धार्मिकत्वप्रकाशनम् । दोहः परानिष्टचिकीर्षा ! मृषोयमनृतवचनम् । अत्याशपरीवादा अत्याशोऽतिमात्रमशनम् । परीवादोऽसमक्षं परदहे. पाभिधानम् । असुया परगुणेष्वक्षमा ! काममन्यू कामः स्त्रीव्यानिक- राभिलाषः । मन्युस्तद्विघातकृत्सु द्वेषः । अनात्म्यम् अनात्मवचा । एष क्रोधादिरयोग, असमाधानलक्षणो लेष नसो विक्षेपप्रकारः । तेषां योगमूल निर्धातः ॥ १२॥ १३ ॥ उज्वला। (१)ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादलितः शोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्येव कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः। लोभो द्रव्य सङ्गः, यो धर्मव्ययमपि रुणद्धि। मोह कार्याकार्ययोरविवेकः। स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि सम्भवतीति । दम्भो धार्मिकत्व(२)प्रकाशनेन लोकवचनम् । द्रोहोऽपका- रः। मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवाद' परदोषाभिधानम् । असूया परगुणे(३)श्वक्षमा । कामः स्त्रीसंसर्गः मन्यु. गूढो बेषः । अनात्म्य अजितेन्द्रियत्वं जिह्वाचापलादि अयोगो विक्षिप्तचित्तता । एते भूतदाहीया दोषाः । तेषां योगभूलो निर्घात ।। ५५ के पुनस्ते योगा इनि, उच्यते-- अक्रोधोऽहर्षोऽशेषोऽलोभोऽमोहोऽदम्भोऽद्रोहः स. स्थवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आ- जवं मार्दवं शमो दमः सर्वभूतैरविरोधो धोग आर्य- १. आक्रोशादि इति ख. पु. १. प्रदर्शनेन इति क. पु. ३. अक्षमता इति क. पु.