पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त. आत्मज्ञानफलम् ] उज्ज्वलोपेले प्रथमः प्रश्नः । विवरणम् । एवं यथोक्तमात्मान विदितखत आध्यात्मिका योगा न्यायसहिता अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः। दोषनिमि- तश्च धर्माधर्मजनितः सलारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम- थे दर्शयिष्यवाह-- दोषाणां तु निर्धातो योगमूल इह जीविते । निहत्य भूल दाहीयान क्षेमं गच्छति पण्डितः ॥ ११ ॥ ३ ॥ दोषाणा तु क्रोधादीनां निर्घात विनाशः । योगा अक्रोधादयः, न्मूलः तन्निमित्तमित्येतत् । अक्रोधादिषु हि सत्सु प्रतिद्वन्द्विनो दोषा दुर्बलत्वानिहन्यन्ते । इह जवित इति दोषप्रभवकमीनीमत्तत्वाज्जीवित तस्य देहधारणावसानो दोषव्यापार इत्येतद् दर्शयति । तत्प्रतिपक्षेश्व- क्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशय कुयुरिति योगदोषयो. रितरेतरविरोधित्वे सति स्थितिगतिवद् योगेभ्यो दोषाणामेव निर्यातः, न तु विपर्यय इत्येतत् । कथमिति चेत् ? उच्यते-सम्यग्दर्शनासचिव. स्वाद बलवन्तो योगाः । मिथ्याप्रत्ययसचिवत्वात दुर्बलत्वानिहन्यन्ते । निहन्तीत्येतदप्युक्तम् । बुद्धिबलवद्भधस्तद्धीनानां लोके निर्घातो दृष्टः । 'अक्रोधनः' (१.१.२३) 'क्रोधादींश्च--' (१.११.२५) इति लि- ङ्गात् । निर्हत्य अपहृत्य । भूतदाहान दोषेषु(न?) [भूतेषु भूतानि द- हान्त इव अग्निना परितप्यन्ते । अतो भूतदाहा दोषा उच्यन्ते । तान् निहत्य । क्षेम निर्भयं मोक्षं गच्छति । "आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन"अभयं वै जनक प्राप्त ऽसिं' 'न भवति विदुषां ततो भयम्' इत्यादिश्रतिस्मृतिभ्यः । दोषप्रशममात्रेणाऽब्रह्मविदः क्षेमप्राप्तिरित्याह-पण्डित इति। ब्रह्मविदि यत्र पण्डितशब्दः प्रयुक्तो, न शास्त्रविदि । (१)"तस्माद् ब्राह्मणः पा ण्डित्य निर्विध" इति श्रुतेः। इहाऽऽत्मविधाधिकारात । यदि तर्हि दोषनिहरणं पण्डितोऽप्यपक्षत, तं प्रति न हि ब्रह्मवि द्या क्षमप्राप्तिनिमित्तम् । यदि ब्रह्मविद्यैव क्षेमप्राप्तिनिर्मितं, ब्रह्मविद्या नन्तरमेव न दुःखमुपलभेत । नैष दोषः । उक्तो ह्यत्र परिहार:--सम्यम् शानबलावष्टम्माद् बलिनो योगा दुर्घलान् दोषान् मिथ्याप्रत्ययभवान् निहन्तुमलमिति । तस्माद् ब्रह्मविद्ययैव क्षेमप्राप्तिः । अन्यथा दोषनिह. रणकर्मक्षययोरसम्भवात् । १.ब.उ.३.५.१,