पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानप्रशंसा ] उज्वलोपेते प्रथम प्रश्नः । विवरणम् । पू: पुरं शरीरम् । प्राणिन प्राणवन्तः। सर्व एवं ब्रह्मादीनि स्त. म्बपर्यन्तानि प्राणिनः। पुरमिव राक्षः उपलब्ध्याधिष्ठानम् । कस्थ पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वायपुरे राजा सचिधादिपरिवृत उपलभ्यते, एव देहवात्मा बुवादिकरणसंयुक्त उपलभ्यते । उपल. भते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूता. यां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धाववि द्यादिदोषमलापनये घिद्वद्भिस्त्य कैषणरुपलभ्यते । इदमपरं विशेषणं गुहाशयस्याऽन्यमानस्य, छेदनभेदनजरारोगादिभिहन्यमाने देहे न हन्यते । (१)न बधेनाऽस्य हन्यते' इतिच्छान्दोग्ये । तस्य विकल्मषस्य, क ल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्व विद्यादोषसहितं धर्मा धर्माख्यं कर्म कल्मषं भवति, विकल्मषस्योति विशेषणेन तत् प्रतिषिध्यते तत्कार्य जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धर. हितस्याऽसंसारिण उपलब्ध्यधिष्ठानं पू: सर्वे प्राणिनः । अतो न संसा. र्यन्यो ऽस्ति । (२)एको देवः सर्वभूतेषु 'गूढ' इति श्वेताश्वतरे। (३) एष सर्वेषु भूतेषु गुढोऽस्मा न प्रकाशते" इति च काठके । (४) नान्यदतोऽस्ति द्रष्टा' इत्यादि वाजसनयके आत्मा तत्वमसी'ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्यो त्तरार्धन तद्विज्ञानवतस्तद्धिज्ञानफलमाह-यस्य सः प्राणिनः पुर अह ल्यमानस्य विकल्मषस्थ, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत् सर्वगतत्वम्, 'माकाशवत् सर्वगतश्च नित्य इति च श्रुतेः। सर्वगतस्य चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्र तिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥ गुहेति प्रकृतिनाम । 'यत्तत्स्मृत कारणमप्रमेयं ब्रह्म प्रधान प्रकृतिप्रसूतिः । आत्मा गुहा योनि(६)रनाद्यनन्त क्षेत्र तथैवामृतमक्षरं च ॥ इति पुराणे दर्शनात् । तस्यां शेते तया जहाऽऽविभागमापनास्तिवतीति गुहाशय आत्मा। 1 उज्वला। २. श्वेता. उ.६.११. १.छा, उ.८१०४. ३. कठो १३,१२. ५.छा.६.८.९. ६ अनायनन्त इति. ख, पुस्तके