पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मस्ने [(प.८.)क. २२. क्षेत्रका इति तस्वमादिवसः का भेदशदे क्षतिः ॥३॥ तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता । यद्वान्ये न भवेयुरेनमपि को लाभोऽस्य तद्वतिः पुंसामित्यभिदा सिदां च न वयं निबंध निश्चिन्महे॥४॥ इति॥ तत्राऽऽत्मलाभीयाच लोकानुदाहरिष्यामः ॥ 3 ॥ विवरणम् । सत्य कोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिनि ह(न्य?न्य)न्ते; तथापि न भूलोद्वतनेन निवृत्तिः क्रोधादीनाम्, लचंदोष बीजभूतमज्ञानं न निवृत्तमिति तस्य चाऽनिवृत्ती वीजस्यानिवर्तित स्वात् सनिवृत्ता अपि क्रोधादयो दोषा पुनरुद्भावयन्तीति ससा. रस्याऽऽत्यन्तिकोच्छदो न स्यात् । तदोषबीजभूतस्थाऽझानस्य मतान् , ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायास्मशानाय मतान् शाखान्तरोपनिषद्भः, तत्र तस्मिन् आत्मलाभप्रयोजने निमिते । आ त्मानं करतलन्यस्तमिव ल(म्भि ? भयि)तुं समर्थान् आत्मलामीयान् श्लोकानुदाहरिष्यामः उद्धृत्याऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम इत्यर्थः ॥३॥ तदिहाऽपेक्षितमात्मानमुपदिश्यते । तच्च त्रिविधम्-श्रुतं मननं निदिध्यासनमिति । (२)श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्य ज्ञानम् । मननमुपपत्तिम निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा निरन्तरंभावना(३)निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं झानं तावदाह- तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रय. चनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पावबद्धानोपनिषदान मन्त्रान् । उदाहरिष्यामः उद्धृत्याहरिष्यामः अन्ये निषेधयिष्यामः॥३॥ पू: प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेत येऽनुत्ति. वन्ति तेऽमुताः॥ ४॥ १.५.उ.२.४.५ २. ध्यानमिति, ख. च. पु.